________________
आगम
(०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [५००-५०१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
R-
RE
प्रत सूत्रांक [५००-५०१]
प्रश्नः उत्तरं तु 'जे से तत्यत्ति अथ ये तत्रेति-तयोः चरमदेवावासपरमदेवावासयोः 'परिपार्वतः' समीपे सौधर्मादेदि रासन्नाः सनरकुमारादेवाऽऽसन्नास्तयोर्मध्यभागे ईशानादावित्यर्थः 'तल्लेसा देवावासत्ति यस्यां लेश्यायां वर्तमानः
साधुर्मतः सा लेश्या येषु ते तल्लेश्या देवावासाः 'तहिति तेषु देवावासेषु तस्थानगारस्य गतिर्भवतीति, यत उच्यते"जल्लेसे मरह जीवे तल्लेसे चेव उववजई"त्ति 'से यति स पुनरनगारस्तत्र मध्यमभागवत्तिनि देवावासे गतः 'विराहिज्जत्ति येन लेश्यापरिणामेन तत्रोत्पन्नस्तं परिणाम यदि विराधयेत्तदा 'कम्मलेस्सामेव'त्ति कर्मणः सकाशाद्या लेश्या-जीवपरिणतिः सा कर्मलेश्या भावलेश्येत्यर्थः 'तामेव प्रतिपतति' तस्या एवं प्रतिपतति अशुभतरतां याति न तु द्रव्यलेश्यायाः प्रतिपतति, सा हि प्राक्तन्येवास्ते, द्रव्यतोऽवस्थितलेश्यत्वाद्देवानामिति । पक्षान्तरमाह-से य तत्थेत्यादि, 'सः' अनगारः 'तत्र' मध्यमदेवावासे गतः सन् यदि न विराधयेत्तं परिणाम तदा तामेव च लेश्यां ययोत्पन्नः 'उपसम्पद्य' आश्रित्य 'विहरति आस्त इति ॥ इदं सामान्यं देवावासमाश्चित्योक्तं, अथ विशेषितं तमेवानित्याह'अणगारे णमित्यादि, ननु यो भावितात्माऽनगारः स कथमसुरकुमारेषूत्पत्स्यते विराधितसंयमानां तत्रोत्पादादिति, | उच्यते, पूर्वकालापेक्षया भावितात्मत्वम् , अन्तकाले च संयमविराधनासद्भावादसुरकुमारादितयोपपात इति न दोषः, बालतपस्वी वाऽयं भावितात्मा द्रष्टव्य इति ॥ अनन्तरं देवगतिरुक्केति गत्यधिकारान्नारकगतिमाश्रित्याह-'नेरइयाण'
मित्यादि, 'कहं सीहा गइत्ति 'कथं' केन प्रकारेण कीदृशीत्यर्थः शीघ्रा गतिः, नारकाणामुत्पद्यमानानां शीघ्रा गतिर्भवदतीति प्रतीतं, यादृशेन च शीघ्रत्वेन शीघ्राऽसाविति च न प्रतीतमित्यतः प्रश्नः कृतः 'कहं सीहे गइविसए'त्ति कथ
गाथा
दीप
अनुक्रम [५९६-५९८]
था.१.६
~171