________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४९४-४९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
__
काली माता - पिता
प्रत
सूत्रांक
[४९४-४९५]
दीप अनुक्रम [५९०-५९१]
निरूपणायाह-'आया भंते ! काये' इत्यादि, आत्मा कायः कायेन कृतस्यानुभवनात्, न ह्यन्येन कृतमन्योऽनुभवति अकृतागमप्रसङ्गात् , अधान्य आत्मनः कायः कायैकदेशच्छेदेऽपि संवेदनस्य सम्पूर्णत्वेनाभ्युपगमादिति प्रश्नः, [प्रन्थाग्रम् १३०००] उत्तरं त्वात्माऽपि कायः कथञ्चित्तदव्यतिरेकात् क्षीरनीरवत् अग्ययस्पिण्डवत् काञ्चनोपलवद्वा, अत एव कायस्पर्शे सत्यात्मनः संवेदनं भवति, अत एव च कायेन कृतमात्मना भवान्तरे वेद्यते, अत्यन्तभेदे चाकृतागमप्रसङ्ग इति, 'अन्नेवि काये'त्ति अत्यन्ताभेदे हि शरीरांशच्छेदे जीवांशच्छेदप्रसङ्गः, तथा च संवेदनासम्पूर्णता स्थात्, तथा शरीरस्य दाहे आत्मनोऽपि दाहप्रसङ्गेन परलोकाभावप्रसङ्ग इत्यतः कथञ्चिदात्मनोऽन्योऽपि काय इति, अन्यैस्तु कार्मणकायमाश्रित्यात्मा काय इति व्याख्यातं, कार्मणकायस्य संसार्यात्मनश्च परस्पराव्यभिचरितत्वेनैकस्वरूपत्वात्, 'अनेवि काए'त्ति औदारिकादिकायापेक्षया जीवादन्यः कायस्तद्विमोचनेन तनेदसिद्धिरिति, 'रूविपि काए'त्ति || रूप्यपि कायः औदारिकादिकायस्थूलरूपापेक्षया, अरूप्यपि कायः कार्मणकायस्यातिसूक्ष्मरूपित्वेनारूपित्वविवक्षणात्,
एवं एफके पुच्छत्ति पूर्वोक्तप्रकारेणैकैकसूत्रे पृच्छा विधेया, तद्यथा-सचित्ते भंते ! काये अचित्ते काये "इत्या|दि, अनोत्तरं-सचित्तेवि काए' जीवदवस्थायां चैतन्यसमन्वितत्वात् , 'अचित्तेविकाए' मृतावस्थायां चैतन्यस्या४|| भावात् , 'जीवेवि कायेति जीवोऽपि विवक्षितोच्छासादिप्राणयुक्तोऽपि भवति कायः औदारिकादिशरीरमपेक्ष्य, * अजीवेवि काये'त्तिअजीवोऽपि उच्यासादिरहितोऽपि भवति कायः कार्मणशरीरमपेक्ष्य, 'जीवाणवि कायेत्ति
जीवानां सम्बन्धी 'काय' शरीरं भवति, अजीवाणवि कायेत्ति अजीवानामपि स्थापनाईदादीनां 'काय' शरीरं।
CASSESCOCOMMC
~155