SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [ ३००] दीप अनुक्रम [३७२] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ] शतक [७], वर्ग [-] अंतर् शतक [-] उद्देशक [९], मूलं [ ३००] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः | चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं ततो युद्धं संप्रलनं, चेटकराजश्व प्रतिपन्न तत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोघवाणश्च सः, तत्र च कूणिक सैन्ये गरुडव्यूहः, [प्रस्थानं ७००० ] | चेटक सैन्ये च सागरव्यूहो विरचितः ततश्च कूणिकस्य कालो दण्डनायको युद्धयमानस्तावद्गतो यावच्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो, भन्नं च कूणिकबलं, गते च द्वे अपि बले निजं निजमावासस्थानम्, एवं च दशसु दिवसेषु | चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थे देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतौ, ततः शक्रो बभाण- चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपकमभेद्यकवचं कृतवान्, चमरस्तु द्वौ सङ्ग्रामों विकुर्वितवान्- महाशिलाकण्टकं रथमुशलं चेति ॥ 'जइत्थ'त्ति जितवान् 'पराजइत्थ'त्ति पराजितवान् हारितवानित्यर्थः 'बज्जि'त्ति 'वज्री' इन्द्रः 'विदेहपुत्ते 'ति कोणिकः, एतावेव तत्र जेतारौ नान्यः कश्चिदिति 'नव मल्लइ ति मल्लकिनामानो राजविशेषाः 'नव लेच्छत्ति लेच्छ किनामानो राजविशेषा एव 'कासीकोसलग ति काशी- वाणारसी तज्जनपदोsपि काशी तत्सम्बन्धिन आद्या नव कोशला- अयोध्या तज्जनपदोऽपि कोशला तत्सम्बन्धिनो नव द्वितीयाः, 'गणरायाणो'त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजाः सामन्ता इत्यर्थः, ते च तदानीं चेटकराजस्य वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त इति ॥ अथ महाशिलाकण्टके सङ्ग्रामे चमरेण विकुर्विते सति कुणिको यदकरोत्तद्दर्शनार्थमिदमाह -- 'तए ण'मित्यादि, ततो' महाशिला कण्टकसङ्ग्रामविकुर्वणानन्तरमुदायिनामानं 'हस्थिराय'ति हस्तिप्रधानं 'पडिकप्पे 'त्ति सन्नद्धं कुरुत महाशीलाकंटकं संग्रामं For Parts Use One ~75~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy