SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-, अंतर्-शतक [-], उद्देशक [९], मूलं [३५३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३५३] । भवन्त्येषमेकस्तेषां राशिः, एकवक्रया ये उत्पद्यन्ते तेषां ये प्रथमे समये तेऽवन्धका द्वितीये तु सर्वबन्धका इस्येवं तेषां द्वितीयो राशिः, स चैकवकाभिधानद्वितीयगत्योत्पद्यमानानाम भूतो भवतीति, द्विवक्रया गत्या ये पुनरुत्पद्यन्ते ते आये समयद्धयेऽबन्धकास्तृतीये तु सर्ववन्धकाः, अयं च सर्वबन्धकानां तृतीयो राशिः, स च द्विवक्राभिधानतृतीयग त्योत्पद्यमानानां त्रिभागभूतो भवति, तृतीयसमयभावित्वात्तस्य, एवं च त्रयः सर्वबन्धकानां राशयः त्रय एव चावन्ध-18 &| कानां, समयभेदेन राशिभेदादिति, एवं च ते राशिप्रमाणतस्तुल्या यथपि भवन्ति तथाऽपि सङ्ख्याप्रमाणतोऽधिका अब-I न्धका भवन्ति ॥ ४-५-६ ॥ ते चैवम्-ये एकसमयिका ऋजुगत्योत्पद्यमानका इत्यर्थः ते एकस्मिन्निगोदे-साधारणशरीरे लोकमध्यस्थिते पढूभ्यो दिग्भ्योऽनुश्रेण्याऽऽगच्छन्ति, ये पुनर्द्विसमयिका एकवक्रगत्योत्पद्यमाना इत्यर्थः ते त्रिन| तरिका:-प्रतरत्रयादागच्छन्ति, विदिशो बक्रेणाऽऽगमनात्, अतरश्च वक्ष्यमाणस्वरूपः, ये पुनस्त्रिसमयिकाः-समयत्रयेण वक्रदयेन चोत्पद्यमानकास्ते शेषलोकात् प्रतरत्रयातिरिक्तलोकादागच्छन्तीति ॥७॥ प्रतरप्ररूपणायाह---लोकमध्यगतैकनिगोदमधिकृत्य तिर्यगायतश्चतसृषु दिक्षु प्रतरः कल्प्यते, असङ्ख्येयप्रदेशवाहल्यो-विवक्षितनिगोदोत्पादकालोचितावगाहनाबाहत्य इत्यर्थः तन्मात्रबाहल्यावेव 'उडे'ति उर्दाधोलोकान्तगती पूर्वापरायतो दक्षिणोत्तरायतश्चेति द्वौ प्रतराविति ॥ ८॥ अथाधिकृतमल्पबहुत्वमुच्यते-ये जीवास्त्रिप्रतरिका एकवक्रया गत्योत्पत्तिमन्तस्ते पडूदिग्भ्यः-ऋजुगत्या | षड्भ्यो दिग्भ्यः सकाशाद् भवन्त्यसङ्ख्यगुणाः, शेषा अपि ये त्रिसमयिकाः शेषलोकादागतास्तेऽप्यसयेयगुणा भवन्ति, ते कुतः १, क्षेत्रासहयगुणितत्वाद्, यतः पदिक्क्षेत्राश्रिप्रतरमसङ्ख्यगुणं, ततोऽपि शेपलोक इति ॥९॥ ततः किम् ? दीप अनुक्रम [४२९] ~273~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy