________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३१४]
आद्यस्यैकत्वे द्वयोश्च क्रमेण त्रित्वे द्वौ, तथाऽऽद्यस्य द्वित्वे द्वयोरपि क्रमेणैव द्वित्वेऽन्यो द्वौ, तथाऽऽद्यस्य त्रित्वे द्वयोश्च क्रमेणैवैकत्वेऽन्यौ द्वौ, तथा द्वितीयस्यैकत्वेऽन्यस्य त्रित्वे तथा द्वयोरपि द्वित्वे तथा द्वितीयस्य त्रित्वेऽन्यस्य चैकत्वे |त्रयोऽन्ये इत्येवं सर्वेऽपि नव त्रययोगे तु वय एव भवन्तीत्येवं सर्वेऽपि पञ्चदश इति । 'जह पओगपरिणया किं मणप्पओगे'त्यादिना चोक्तशेष द्रव्यचतुष्कप्रकरणमुपलक्षितं, तच्च पूर्वोक्तानुसारेण संस्थानसूत्रान्तमुचितभङ्गकोपेतं समस्तमध्येयमिति । अथ पञ्चादिद्रव्यप्रकरणान्यतिदेशतो दर्शयन्नाह-एवं एएण'मित्यादि, एवं चाभिलाप:-'पंच भंते ! दबा किं पओगपरिणया ३१, गोयमा! पओगपरिणया ३ अहवा एगे पओगपरिणए चत्तारि मीसापरिणया' इत्यादि, इह च द्विकसंयोगे विकल्पा द्वादश, कथम् , एक चत्वारि च १ द्वे त्रीणि च २ त्रीणि द्वे च ३ चत्वार्येकं च ४ इत्येवं चत्वारो विकल्पा द्रव्यपञ्चकमाश्रित्यैकत्र द्विकसंयोगे पदत्रयस्य त्रयो द्विकसंयोगास्ते च चतुर्भिर्गुणिता द्वादशेति, त्रिकयोगे तु षट्, कथम् , त्रीण्येकमेकं च १ एकं त्रीण्येकं च २ एकमेकं त्रीणि च द्वे द्वे एकं च ४ द्वे एक द्वे च ५एकं| देवेच ६ इत्येवं षट्, 'जाव दससंजोएण'ति इह यावत्करणाच्चतुष्कादिसंयोगाः सूचिताः, तत्र च द्रव्यपश्चकापेक्षया सत्यमनःप्रयोगादिषु चतुर्यु पदेषु द्वित्रिकचतुष्कसंयोगा भवन्ति, तत्र च द्विकसंयोगाश्चतुर्विंशतिः २४, कथम् , चतुर्णी | पदानां षट् द्विकर्सयोगाः, तत्र चैकैकस्मिन् पूर्वोक्तक्रमेण चत्वारो विकल्पाः पग्णां च चतुर्भिर्गुणने [च] चतुर्विंशतिरिति, त्रिकसंयोगा अपि चतुर्विंशतिः, कथम् !, चतुर्णा पदानां त्रिकसंयोगाश्चत्वारः, एकैकस्मिंश्च पूर्वोतक्रमेण पडू विकल्पाः, चतुणी च पनिर्गुणने चतुर्विंशतिरिति, चतुष्कसंयोगे तु चत्वारः, कथम् ?, आदी द्वे त्रिषु चैकैकं १ तथा द्वितीयस्थाने
दीप अनुक्रम [३८७]
~119~