________________
आगम
(०५)
प्रत
सूत्रांक
[२३९]
+
गाथा
दीप
अनुक्रम
[ २८६
-२८७]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [६], वर्ग [–], अंतर् शतक [-], उद्देशक [४], मूलं [ २३९ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवी
यावृत्तिः १
॥२६४||
त्रयभावना, केवलमवधिदण्डकयोरे केन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्याः, मनःपर्यायदण्डकयोस्तु जीवा मनुष्याश्च वाच्याः, केवलदण्डकयोस्तु जीवमनुष्यसिद्धा वाच्याः, अत एव वाचनान्तरे दृश्यते 'विष्णेयं जस्स जं अस्थि'ति । 'ओहिए अन्नाणे' इत्यादि, सामान्येऽज्ञाने मत्यज्ञानादिभिरविशेषिते मत्यज्ञाने श्रुताज्ञाने च जीवादिषु त्रिभङ्गी भवति, एते हि सदाऽवस्थितत्वात्सप्रदेशा इत्येकः, यदा तु तदन्ये ज्ञानं विमुध्य मत्यज्ञानादितया परिणमन्ति तदैकादिसम्भवेन सप्रदेशाश्चाप्रदेशश्चेत्यादिभङ्गद्वयमित्येवं भङ्गत्रयमिति, पृथिव्यादिषु तु सप्रदेशाश्चाप्रदेशाश्चेत्येक एवेत्यत आह- 'एगिंदियवज्जो तियभंगो'त्ति, इह च त्रयेऽपि सिद्धा न वाच्याः, विभङ्गे तु जीवादिषु भङ्गत्रयं तद्भावना च मत्यज्ञानादिवत्, | केवलमिहै केन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्या इति, 'सजोई जहा ओहिओ'त्ति सयोगी जीवादिदण्डकद्वयेऽपि तथा वाच्यो यथौधिको जीवादिः, स चैवम्-सयोगी जीवो नियमात्सप्रदेशो नारकादिस्तु सप्रदेशोऽप्रदेशो वा बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनस्तृतीयभङ्गा इति इह सिद्धपदं नाध्येयं, 'मणजोई' | इत्यादि, मनोयोगिनो योगत्रयवन्तः सञ्ज्ञिन इत्यर्थः, वाम्योगिन एकेन्द्रियवर्जाः, काययोगिनस्तु सर्वेऽप्येकेन्द्रियादयः, एतेषु च जीवादिषु त्रिविधो भङ्गः, तद्भावना च मनोयोग्यादीनामवस्थितत्वे प्रथमः, अमनोयोगित्वादित्यागाच्च मनोयोगित्वाद्युत्पादनाप्रदेशत्व लाभे ऽन्यद्भङ्गकद्वयमिति नवरं काययोगिनो ये एकेन्द्रियास्तेष्वभङ्गकं सप्रदेशा अप्रदेशाश्चेत्येक एव भङ्गक इत्यर्थः, एतेषु च योगत्रयदण्डकेषु जीवादिपदानि यथासम्भवमध्येयानि सिद्धपदं च न वाच्यमिति 'अजोगी जहा अलेस' ति दण्डकद्वयेऽप्य लेश्य समव कव्यत्वात्तेषां ततो द्वितीयदण्डकेऽयोगिषु जीवसिद्धपदयोर्भङ्गकत्रयं मनुष्येषु च षड्भङ्गीति ॥
For Parts Only
~541~
६ शतके
उद्देशः ४ जीवादीनां सप्रदेशत्या
दिः सू २१९
॥ २६४ ॥