________________
आगम
(०५)
प्रत
सूत्रांक
[१८७]
दीप
अनुक्रम [२२७]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [५], वर्ग [−], अंतर् शतक [-], उद्देशक [४], मूलं [१८७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५] अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञष्ठिः
॥२१८॥
'हरी' त्यादि, इह च यद्यपि महावीरसंविधानाभिधायकं पदं न दृश्यते तथाऽपि हरिनैगमेपीति वचनात्तदेवानुमीयते अभयदेवी-हरिनैगमेषिणा भगवतो गर्भान्तरे नयनात्, यदि पुनः सामान्यतो गर्भहरणविवक्षाऽभविष्यत्तदा 'देवे णं भंते !' इत्यया वृत्तिः १ ४ क्ष्यदिति, तत्र हरिः- इन्द्रस्तत्सम्बन्धित्वात् हरिनैगमेपीति नाम, 'सक्कदूए'ति शक्रदूतः शक्रादेशकारी पदात्यनीकाधि| पतिर्येन शक्रादेशाद्भगवान् महावीरो देवानन्दागर्भा त्रिशलागर्भे संहृत इति, 'इत्थीगन्र्भ'ति स्त्रियाः सम्बन्धी गर्भःसजीवपुद्गलपिण्डकः स्त्रीगर्भस्तं 'संहरेमाणे'ति अन्यत्र नयन्, इह चतुर्भङ्गिका, तत्र 'गर्भाद' गर्भाशयादवधेः 'गर्भ' गर्भाशयान्तरं 'संहरति' प्रवेशयति 'गर्भ' सजीवपुद्गलपिण्डलक्षणमिति प्रकृतमित्येकः १, तथा गर्भादवधेः 'योनिं' गर्भ| निर्गमद्वारं संहरति योन्योदरान्तरं प्रवेशयतीत्यर्थः २, तथा 'योनीतो' योनिद्वारेण गर्भ संहरति गर्भाशयं प्रवेशयतीत्यर्थः ३, तथा 'योनीतः' योनेः सकाशाद्योनिं 'संहरति' नयति योग्योदरान्निष्काश्य योनिद्वारेणैवोदरान्तरं प्रवेशयतीत्यर्थः ४, एतेषु शेषनिषेधेन तृतीयमनुजानन्नाह - 'परामुसिए'त्यादि, 'परामृश्य २' तथाविधकरणव्यापारेण संस्पृश्य २ स्त्रीगर्भम् 'अव्याबाधमव्याबाधेन' सुखं सुखेनेत्यर्थः 'योनीतः' योनिद्वारेण निष्काश्य 'गर्भ' गर्भाशयं 'संहरति' गर्भमिति प्रकृतं, | यच्चेह योनीतो निर्गमनं स्त्रीगर्भस्योकं तलोकव्यवहारानुवर्त्तनात्, तथाहि - निष्पन्नोऽनिष्पन्नो वा गर्भः स्वभावाद्योन्यैव निर्ग|च्छतीति । अयं च तस्य गर्भसंहरणे आचार उक्तः, अथ तत्सामर्थ्यं दर्शयन्नाह - 'पभू ण'मित्यादि, 'नहसिरंसि 'ति | नखाग्रे 'साहरितए'ति संहर्तुं प्रवेशयितुं 'नीहरित्तए' ति विभक्तिपरिणामेन नखशिरसो रोमकूपाद्वा 'निहतु' निष्का| शयितुम् 'आवा'ति ईषद्वाधां 'विवाह'ति विशिष्टवाघां 'छविच्छेदं'ति शरीरच्छेदं पुनः कुर्यात्, गर्भस्य हि छवि
हरीणेगमेषीदेव द्वारा गर्भ-संक्रमण
For Parts Only
~ 449~
५ शतके उद्देशः ४ हरिर्नंग मै
पीगर्भसं
क्रामकः
सू १८७
॥२१८॥