________________
आगम
(०५)
प्रत
सूत्रांक
[१४७]
दीप
अनुक्रम [१७५]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [३], वर्ग [–], अंतर् शतक [-], उद्देशक [२], मूलं [ १४७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
गतिस्वात्तस्य, तच किल कल्पनया त्रिभागभ्यूनं गव्यूतत्रयं,' तिरियं संखेने भागे 'ति तस्मिन्नेव पूर्वोके त्रिभागन्यूनगन्यू| तत्रये द्विगुणिते ये योजनस्य सङ्ख्या भागा भवन्ति तान् गच्छति, तिर्यग्गतौ शीघ्रतरगतित्वात्तस्य, 'अहे संखेज्जे भागे गच्छत्ति पूर्वोक्ते त्रिभागद्वयन्यूने गव्यूतषङ्के त्रिभागन्यूनगब्यूतत्रये मीलिते ये सङ्ख्येयभागा भवन्ति तान् गच्छति, | योजनद्रयमित्यर्थः । अथ कथं सयात भागमात्रोपादाने नियतसङ्ख्येयभागत्वं व्याख्यायते ?, उच्यते, शक्रस्योर्द्धगतेश्चमरस्य चाधोगतेः समत्वमुक्तं, शक्रस्य चोर्द्धगमनं समयेन योजनद्वयरूपं कल्पितमतश्चमरस्याधोगमनं समयेन योजनद्वयमुक्तं, तथा 'जावश्यं सके र उहुं उप्पयइ एगेणं समएणं तं वज्रं दोहिं जं वज्जं दोहिं तं चमरे तिर्हिति वचनसामर्थ्यात् प्रतीयते शक्रस्य यदूर्द्ध गतिक्षेत्रं तस्य त्रिभागमात्ररूपं चमरस्योर्द्धगतिक्षेत्रमतो व्याख्यातं त्रिभागन्यूनत्रिगव्यूतमानं तदिति, ऊर्द्धक्षेत्राधोगतिक्षेत्र योश्चापान्तरालवत्तिं तिर्यकूक्षेत्रमितिकृत्वा त्रिभागद्वयन्यूनपड्गव्यूतमानं तद्व्याख्यातमिति, यच चूर्णिकारेणोक्तं 'चमरो उहुं जोयण'मित्यादि तन्नावगतं, 'वज्रं जहा सक्कस्स तहेव'त्ति वज्रमाश्रित्य गतिविषयस्याल्पबहुत्वं वाच्यं यथा शक्रस्य तथैव, विशेषद्योतनार्थं त्वाह-'नवरं विसेसाहियं कायच्वं' ति, तच्चैवम्- 'वज्जस्स णं भंते! उहूं | अहे तिरियं च गइविसयरस कयरे कयरेहिंतो अप्पे वा ४ १, गोयमा ! सवत्थोवं खेचं वज्जे अहे ओवयइ एक्केणं समएणं तिरियं विसेसाहिए भागे गच्छइ उहूं विसेसाहिए भागे गच्छइ त्ति, वाचनान्तरे तु एतत्साक्षादेवोकमिति, अस्थायमर्थःसर्वस्तोकं क्षेत्रं वज्रमधो ब्रजत्येकेन समयेन, अधो मन्दगतित्वात्तस्य वज्रस्य, तच्च किल कल्पनया त्रिभागन्यूनं योजनं, तिर्यक् तच्च विशेषाधिको भागौ गच्छति, शीघ्रतरगतित्वात्, तौ च किल योजनस्य द्वौ त्रिभागौ विशेषाधिको सत्रिभागं गव्यू
Education Internationa
For Parts Use One
~ 370~