SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [4] दीप अनुक्रम [६] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [१], मूलं [५], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञठिः अभयदेवीया वृत्तिः १ ॥ ८ ॥ Jan Euratur समस्तेतरहस्तिनो भज्यन्ते तथा भगवतस्तदेश विहरणेन इतिपरचक्रदुर्भिक्षडमरमरकादीनि दुरितानि नश्यन्तीति पुरुषवरगन्धहस्तीत्युच्यत इत्यत उपमात्रयात्पुरुषोत्तमोऽसौ । न चायं पुरुषोत्तम एव, किन्तु १, लोकस्याप्युत्तमो, लोकनाथत्वादू, एतदेवाह - 'लोगणाहेन्ति, लोकस्य सम्ज्ञिभव्य लोकस्य नाथः - प्रभुलकनाथः, नाथत्वं च योगक्षेमकारित्वं, 'योगक्षेमकृन्नाथ' इति वचनात् तच्चास्याप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य च परिपालनेनेति, लोकनाथत्वं च यथाव| स्थित समस्तवस्तुस्तोमप्रदीपनादेवेत्यत आह- 'लोगपईवे 'त्ति लोकस्य - विशिष्टतिर्य नरामररूपस्याऽऽम्तरतिमिरनिराकरणेन | प्रकृष्टप्रकाश कारित्वात्प्रदीप इव प्रदीपः, इदं विशेषणं द्रष्टृलोकमाश्रित्योक्तम्, अथ दृश्यं लोकमाश्रित्याह- 'लोगपज्योयगरे त्ति, लोकस्य-लोक्यत इति लोकः अनया व्युत्पत्त्या लोकालोकस्वरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्त्तण्डमण्डलमिव निखिलभावस्वभावावभाससमर्थ केबुलालोकपूर्वकप्रवचनप्रभापटलप्रवर्त्तनेन प्रद्योतं - प्रकाशं करोतीत्येवंशीखो | लोकप्रद्योतकरः । उक्तविशेषणोपेतश्च 'मिहिरहरिहरहिरण्यगर्भादिरपि तत्तीर्थिक मतेन भवतीति कोऽस्य विशेष इत्या| शङ्कायां तद्विशेषाभिधानायाह- 'अभयदए'त्ति, न भयं दयते ददाति प्राणापहरण रसिकेऽप्युपसर्गकारिणि प्राणिनीत्यभयदयः, अभया वा सर्वप्राणिभयपरिहारवती दया- अनुकम्पा यस्य सोऽभयदयः, हरिहरमिहिरादयस्तु नैवमिति विशेषः, न केवलमसावपकारिणां तदन्येषां वाऽनर्धपरिहारमात्रं करोति अपि त्वर्थप्राप्तिमपि करोतीति दर्शयन्नाह - 'चक्खुदये'त्ति, चक्षुरिव चक्षुः - श्रुतज्ञानं शुभाशुभार्थविभागोपदर्शकत्वात्, यदाह - "चक्षुष्मन्तस्त एवेह ये श्रुतज्ञानचक्षुषा । सम्यकू सदैव पश्यन्ति, भावान् हेयेतरान्नराः ॥ १ ॥” तद्दयत इति चक्षुर्दयः यथा हि लोके कान्तारगतानां ond For Park Use Only 'श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवत: विशेषणानाम व्याख्याः / ( शक्रस्तवस्य व्याख्या) ~30~ १ शतके उद्देशः १ वीरवर्ण नादि सू० ५ ॥ ८ ॥ Kar
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy