________________
आगम
(०४)
प्रत
सूत्रांक
[१७]
प्रत
अनुक्रम
[४२]
[भाग-6] “स्थान” – अंगसूत्र - ३ ( मूलं + वृत्ति:)
समवाय [१७],
मूलं [१७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र- [०४] अंगसूत्र- [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
श्रीसमवा
यांग
श्रीअभय० वृत्तिः *
॥ ३४ ॥
यावज्जीवस्य मृतत्वादिति, तथा 'आयंतियमरणे'त्ति आत्यन्तिकमरणं यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीति, एवं यन्मरणं तद्द्रव्यापेक्षया अत्यन्तभावित्वादात्यन्तिकमिति, 'बलाय मरणे'त्ति संयमयोगेभ्यो वलतां भग्नत्रतपरिणतीना प्रतिनां मरणं वलन्मरणं तथा वशेन-इन्द्रियविषयपारतच्येण ऋता बाधिता बशार्त्ताः स्त्रिग्धदीपकलिकावलोकनात् शलभवत् तथाऽन्तः - मध्ये मनसीत्यर्थः शल्यमिव शल्यमपराधपदं यस्य सोऽन्तः शल्यो – लज्जाभिमानादिभिरनालोचितातीचारस्तस्य मरणम् अन्तःशल्यमरणं, तथा यस्मिन् भवे - तिर्यगूमनुष्य भवलक्षणे वर्त्तते जन्तुस्तद्भव योग्यमेवायुर्वद्धा पुनः तत्क्षयेण त्रियमाणस्य यद्भवति तत्तद्भ वमरणं, एतच तिर्यगमनुष्याणामेव न देवनारकाणां तेषां तेष्वेवोत्पादाभावादिति, तथा बाला इव बाला:- अविर - तास्तेषां मरणं वालमरण, तथा पण्डिताः सर्वविरतास्तेषां मरणं पण्डितमरणम्, वालपण्डिताः देशविरतास्तेषां मरणं बालपण्डितमरणं, तथा छद्मस्थमरणम् - अकेवलिमरणं, केवलिमरणं तु प्रतीतं, 'बेहासमरणं'ति विहायसि -न्योमनि भवं वैहायसं विहायो भवत्वं च तस्य वृक्षशाखाद्युद्धद्धत्वे सति भावात्, तथा एः-पक्षिविशेषैरुपलक्षणत्वाच्छकुनि |काशिवादिभिश्व स्पृष्टं-स्पर्शनं यस्मिंस्तभ्रस्पृष्टम् अथवा गृभ्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि यत्र तत्रपृष्टम् इदं च करिकरभादिशरीर मध्यपातादिना गृभ्रादिभिरात्मानं भक्षयतो महासत्त्वस्य भवति, तथा भक्तस्य-भोजनस्य यावज्जीवं प्रत्याख्यानं यस्मिंस्तत्तथा इदं च त्रिविधाहारस्य चतुर्विधाद्वारस्य वा नियमरूपं सप्रतिकर्म च भक्तपरिज्ञेति
मरणस्य सप्तदश भेदा:
For Parts Only
~79~
१७ सम
बायाध्य.
॥ ३४ ॥