________________
आगम
(०४)
प्रत
सूत्रांक
[१२]
प्रत
अनुक्रम [२०-२५]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
समवाय [१२], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४]
Eticatur
प्रायश्चिन्तिनोऽपि न भवन्तीति, आह च - "संमणुन्नमसमणुन्ने अदिन्नणा भवगिण्हमाणे वा । सम्भोग वीसुकरणं [पृथकरणमित्यर्थः ] इयरे य अलंभ पे ंति ॥ १ ॥" [ इतरान् पार्श्वस्थादीनित्यर्थः ] तथा 'सन्निसिज्जा य'त्ति सन्निषद्या-आसनविशेषः, सा च सम्भोगासम्भोगकारणं भवति, तथाहि —संनिषद्यागत आचार्यो निषद्यागतेन सम्भोगिकाचार्येण सह श्रुतपरिवर्त्तनां करोति शुद्धः, अथामनोज्ञपार्श्वस्थादिसाध्वीगृहस्यैः सह तदा प्रायश्चित्ती भवति, तथा अक्षनिषद्यां विनाऽनुयोगं कुर्वतः शृण्वतश्च प्रायश्चित्तं, तथा निषद्यायामुपविष्टः सूत्रार्थी पृच्छति अतिचारान् वाऽऽलोचयति यदि तदा तथैवेति, तथा 'कहाए य पंबंधणे ति कथा-वादादिका पञ्चषा तस्याः प्रबन्धनं-प्रबन्धेन करणं कथाप्रबन्धनं, तत्र सम्भोगासम्भोगी भवतः, तत्र मतमभ्युपगम्य पञ्चावयवेन व्यवयवेन वा वाक्येन यत्तत्समर्थनं स छलजातिविरहितो भूतार्थान्वेषणपरो वादः, स एव छलजातिनिग्रहस्थानपरी जल्पः यत्रैकस्य पक्षपरियहोऽस्ति नापरस्य सा दूषणमात्रप्रवृत्ता वितण्डा, तथा प्रकीर्णकथा चतुर्थी, सा चोत्सर्गकथा द्रव्यास्तिकन्यकथा वा, तथा निश्चयकथा पञ्चमी, सा चापवादकथा पर्यायास्तिकनयकथा वेति, तत्राद्यास्तिस्रः कथाः श्रमणीवजैः सह करोति, श्रमणीभिस्तु सह कुर्वन् प्रायश्चित्ती, चतुर्थवेलायां चालोचयन्नपि विसम्भोगाई इति रूपकद्वयस्य संक्षेपार्थः विस्तरार्थस्तु निशीथपञ्चमोद्देशक भाष्यादवसेय इति, तथा 'दुवालसावत्ते किकम्मे त्ति द्वादशावर्त्त कृतिकर्म-चन्दनकं
१ समनोज्ञामनोज्ञयोरदत्तमनाभान्ये गृहति वा संभोगविश्वकरणं इतरांचाला प्रेरयन्ति ॥ १ ॥
For Parts Only
मूलं [१२] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
~58~
nary or