________________
आगम
(०४)
प्रत
सूत्रांक
[१२]
प्रत
अनुक्रम [२०-२५]
समवाय [१२], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंगसूत्र- [०४]
Education
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
भिक्षुणाम द्वादश: प्रतिमायाः वर्णनं
शुद्धः, तस्यैवाविधिनोपसम्पन्नस्यानुपसम्पन्नस्य वा पार्श्वस्यादेर्वा स्त्रिया वा वाचनादि कुर्वस्तथैव वेळात्रयोपरि बिसम्भोग्यः, तथा 'भत्तपाणे'त्ति उपधिद्वारवदवसेयं, नवरमिह भोजनं दानं च परिकर्मपरिभोगयोः स्थाने वाच्यमिति, तथा 'अंजलीपग्गहेति य' इहेतिशब्दा उपदर्शनार्थाः चकाराः समुच्चयार्थाः, तत्रोपलक्षणत्वादअलिप्रग्रहस्य वन्दनादिकमपीह द्रष्टव्यं तथाहि —सम्भोगिकानामन्यसम्भोगिकानां वा संविमानां कन्दनकं प्रणाममञ्जलिप्रग्रहं नमः क्षमाश्रमणेभ्य इति भणनं, आलोचनासूत्रार्थनिमित्तनिवद्याकरणं च कुर्वन् शुद्धः पार्श्वस्थादेरेतानि कुर्वस्तथैव सम्भोग्यो विसम्भोग्यश्चेति, तथा 'दायणे य'त्ति दानं, तत्र सम्भोगिकः सम्भोगिकाय [वस्त्रादिभिः शिष्यगणोपग्रहा| समर्थ सम्भोगिके] ऽन्यसम्भोगिकाय वा शिष्यगणं यच्छन् शुद्धः, निष्कारणं विसम्भोगिकस्य पार्श्वस्थादेर्वा संयत्या वा तं यच्छंस्तथैव सम्भोग्यो विसम्भोग्यश्चेति, तथा 'निकाए य'त्ति निकाचनं छन्दनं निमन्त्रणमित्यनर्थान्तरं तत्र शय्योपध्याहारैः शिष्यगणप्रदानेन खाध्यायेन च सम्भोगिकः सम्भोगिकं निमन्त्रयन् शुद्धः, शेषं तथैव, तथा 'अब्भुट्ठाणेति यावरे' त्ति अभ्युत्थानमासनत्यागरूपमित्यपरं सम्भोगासम्भोगस्थानमित्यर्थः, तत्राभ्युत्थानं पार्श्वस्थादेः कुर्वस्तथैवासम्भोग्यः, उपलक्षणत्वादभ्युत्थानस्य किङ्करतां च- प्राघूर्णकग्लानाद्यवस्थायां किं विश्रामणादि करोमीत्येवंप्रलक्षणां तथाs|भ्यास करणं- पार्श्वस्थादिधर्माच्युतस्य पुनस्तत्रैव संस्थापनलक्षणं, तथा अविभक्तिं च-अपृथग्भावलक्षणां कुर्वनशुद्धोऽसम्भोग्यश्चापि एतान्येव यथाऽऽगमं कुर्वन् शुद्धः सम्भोग्यश्चेति, तथा 'किकम्मस्स य करणेत्ति कृतिकर्म-चन्द
For Penal Lise Only
मूलं [१२] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
~56~
Sayor