________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------------------------ मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
56-4-%
सूत्रांक [१५०]
EXS
रयोरन्तरमष्टहस्तो मार्गः पाठान्तरेण 'चतुरयन्ति चतुरकाः सभाविशेषाः ग्रामप्रसिद्धाः 'दारगोउर'त्ति गोपुरद्वाराणि प्रतोल्यो-नगरस्यैव कपाटानि प्रतीतानि तोरणान्यपि तथैव प्रतिद्वाराणि-अवांतरद्वाराणि तत एतेषां द्वन्द्व एतानि देशलक्षणेषु भागेषु येषां तानि तथा, इह देशो भागबानेकार्थः, ततोऽन्योऽन्यमनयोर्विशेष्यविशेषणभावो दृश्य इति, तथा जंताणि-पाषाणक्षेपणयत्राणि मुशलानि प्रतीतानि मुसुंब्यः-प्रहरणविशेषाः शतभ्यः-शतानामुपपातकारिण्यो महाकायाः काष्टशैलस्तम्भयष्टयः ताभिः 'परिवारिय'त्ति-परिवारितानि परिकलितानीत्यर्थः, तथा अयोध्यानि-योधयितुंसामयितुं दुर्गत्वान्न शक्यन्ते परवलानि तान्ययोध्यानि अविद्यमाना वा योधाः-परवलसुभटा यानि प्रति तान्ययोधानि, तथा अडयालकोट्ठगरइयत्ति अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छन्दगोपुररचितानि, अन्ये भणन्ति-अडयालिय(ल)शब्दः किल प्रशंसावाचकः, तथा 'अडयालकयवणमाल'त्ति अष्टचत्वारिंशद्भेदभिन्नाः प्रशंसाः कृता वनमाला-वनस्पतिपल-18 बस्रजो येषु तानि तथा, 'लाइय'ति यद्भूमेश्छगणादिनोपलेपनं 'उलोइय'ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणं ततस्ताभ्यामिव महितानि-पूजितानि लाउलोइयमहितानि, तथा गोशीर्ष-चन्दनविशेषः सरसं च-रसोपेतं यद्रक्तचन्दनं-चन्दनविशेषः ताभ्यां दर्दराभ्यां-घनाभ्यां दत्ताः पञ्चाङ्गुलयस्तला-हस्तकाः कुड्यादिषु येषु, अथवा गोशीर्पसरसरक्तचन्दनस्य सत्का दर्दरेण-चपेटाभिघातेन ददरेषु वा-सोपानवीथीपु दत्ताः पञ्चाङ्गुलयस्तला येपुतानि गोशीसरसरक्तचन्दनददरदत्तपश्चाङ्गुलितलानि, तथा कालागुरु:-कृष्णागुरुर्गन्धद्रव्यविशेषः प्रवरः-प्रधानः कुन्दुरका-चीडा
गाथा:
Rece
प्रत अनुक्रम
E k
[२३८
-२४४]
JAMEauraton
.
~286~