SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: श्रीसमवा- यांगे प्रत सूत्रांक [१४८] दशामा| राधनविराधनाफलं. वृत्तिः ॥१३॥ प्रत अनुक्रम [२३३] न्तमत्रार्थे आह–से जहा नाम ए' इत्यादि, तद्यथा नाम पञ्चास्तिकाया-धर्मास्तिकायादयः न कदाचिन्नासन्नित्यादि प्राग्वत् , 'एवमेवे'त्यादि दान्तिकयोजना निगदसिद्धेवेति । एत्थ ण मित्यादि अत्र द्वादशाङ्गे गणिपिटके अनन्ता |भावा आख्यायन्त इति योगः, तत्र भवन्तीति भावा-जीवादयः पदार्थाः, एते च जीवपुद्गलानामनन्तत्वादनन्ता इति, तथा अनन्ता अभाषाः, सर्वभावानामेव पररूपेणासत्त्वात्त एवानन्ता. अभावा इति, खपरसत्ताभावाभावोभयाधीनत्वाद्वस्तुतत्त्वस्य, तथाहि-जीवो जीवात्मना भावोऽजीवात्मना चाभावोऽन्यथाऽजीयत्वप्रसङ्गादिति, अन्ये तु धमापेक्षया अनन्ता भावाः अनन्ता अभाषाः (च) प्रतिवस्त्वस्तित्वनास्तित्वाभ्यां प्रतिबद्धा इति व्याचक्षते, तथाऽनन्ता हेतवः, तत्र हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुस्ते चानन्ताः, वस्तुनोऽनन्तधर्मात्मकत्वात् , तत्प्रतिवद्धधर्मविशिष्टवस्तुगमकत्वाच हेतोः सूत्रस्य चानन्तगमपर्यायात्मकत्वादिति, यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः, तथा अनन्तानि कारणानि मृत्पिण्डतन्त्वादीनि घटपटादिनिर्वर्तकानि, तथा अनन्तान्यकारणानि सर्वकारणानामेव कार्यान्तराकारणत्वात् , नहि मृत्पिण्डः पटं निर्वयतीति, तथा अनन्ता जीवाः-प्राणिनः एवमजीवा:-अणुकादयः भवसिद्धिका-भव्याः सिद्धा-निष्ठितार्था इतरे-संसारिणः, 'आपविजंती'त्यादि पूर्ववदिति । द्वादशाहस्य खरूपमनन्तरमभिहितमथ तदभिधेयस्य राशिद्वयान्तर्भावतः खरूपमभिधित्सुराहदुवे रासी पन्नत्ता, तंजहा जीवरासी अजीवरासी य, अजीवरासी दुविहा पन्नत्ता, तंजहा-रूवीजीवरासी अरूवीअजीवरासी ॥१३३॥ IPATumstaram.org द्वादशांगीनाम् शाश्वतता ~277~
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy