________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१४७]
प्रत अनुक्रम [२२८-२३२]
योगः, तथा चाह-से किं तं मूलपढमाणुओगे' इत्यादि सूत्रसिद्धं यावत् ‘सेत्तं मूलपढमाणुओगे', 'से किं तमित्यादि इहैकवक्तव्यतार्थाधिकारानुगता वाक्यपद्धतयो गण्डिका उच्यन्ते तासामनुयोगः-अर्थकथनविधिः गण्डिकानुयोगः, तथा चाह-'गंडियाणुओगे अणेगे'त्यादि, तत्र कुलकरगण्डिकासु कुलकराणां विमलवाहनादीनां पूर्वजन्मायभिधीयत इति, एवं शेषाखपि अभिधानवशतो भावनीयं, यावत् चित्रान्तरगण्डिकाः, नवरं दशाहोः-समुद्रविजयादयो दश वसुदेवान्ताः तथा चित्रा-अनेकार्था अन्तरे-ऋषभाजिततीर्थकरान्तरे गण्डिका-एकवक्तव्यतार्थाधिकारानुगतास्ततश्च चित्राश्च ता अन्तरगण्डिकाच चित्रान्तरगण्डिकाः, एतदुक्तं भवति-ऋषभाजिततीर्थकरान्तरे तद्वंजभूपतीनां शेपगतिगमनव्युदासेन शिवगमनानुत्तरोपपातप्राप्तिप्रतिपादिकाश्चित्रान्तरगण्डिका इति, ताश्च 'चोइस-13 लक्खा सिद्धा निवईणेको य होइ सबढे । एवेकेकट्ठाणे पुरिसजुगा हुंति संखेजे ॥१॥' त्यादिना ग्रन्थेन नन्दिटीकायामभिहितास्तत एवावधार्याः, इह सूत्रगमनिकामात्रस्य विवक्षितत्वादिति, शेषं सूत्रसिद्धमानिगमनात्, नवरं 'संखेजा वत्थु'त्ति पञ्चविंशत्युत्तरे द्वे शते 'संखेज्जा चूलवत्थुति चतुर्विंशत् ॥१२॥ साम्प्रतं द्वादशाझे विराधनानिष्पन्नं कालिकं फलमुपदर्शयन्नाहइच्चेइयं दुगालसंग गणिपिडगं अतीतकाले अर्णता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टिसु इच्चेइयं दुवालसंगं गणिपिडगं पटुप्पण्णे काले परित्ता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियति इचेइयं दुवालसंग गणिपिडगं
--
द्रष्टिवाद अंगसूत्रस्य शाश्त्रीयपरिचय:, द्वादशांगीनाम् शाश्वतता ...सूत्रारम्भे यत् 'दुगालसंग' मुद्रितं तत् मुद्रणदोष संभाव्यते, मूल शब्द 'दुवालसंग' अस्ति
~274~