________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [३५], ------------------------------------ मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३५]
वस्तत्त्वं २६ अद्भुतत्वं-अनतिविलम्बितत्वं च प्रतीतं २७-२८ विभ्रमविक्षेपकिलिकिञ्चितादिविमुक्तत्व-विभ्रमो-वक्तृमनसो भ्रान्तता विक्षेपः-तस्यैवाभिधेयार्थ प्रत्यनासक्तता किलिकिञ्चितं-रोषभयाभिलाषादिभावानां युगपदा सकृत्करणमादिशब्दान्मनोदोपान्तरपरिग्रहस्तैर्विमुक्तं यत्तत्तथा तद्धावस्तत्त्वं २९ अनेकजातिसंश्रयाद्विचित्रत्वं, इह जातयो वर्णनीयवस्तुरूपवर्णनानि ३० आहितविशेषत्वं-वचनान्तरापेक्षया ढौकितविशेषता ३१ साकारत्वं-| विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वं ३२ सत्त्वपरिगृहीतत्वं-साहसोपेतता ३३ अपरिखेदितत्वं-अनायाससम्भवः |३४ अव्युच्छेदित्य-विवक्षितार्थानां सम्यसिद्धिं यावदनवच्छिन्नवचनप्रमेयतेति ३५] तथा दत्तः-सप्तमवासुदेवः न-18 न्दनः-सप्तमबलदेवः, एतयोचावश्यकाभिप्रायेण षइविंशतिर्धनुषामुञ्चत्वं भवति, सुबोधं च तत् , यतोऽरनाथमल्लिखामिनोरन्तरे तापभिहिती, यतोऽवाचि-"अरमल्लिअंतरे दोणि केसवा पुरिसपुंडरीय दत्त"त्ति, अरनाथमल्लिनाथियोश्च क्रमेण त्रिंशत्पञ्चविंशतिश्च धनुषामुच्चत्वं, एतदन्तरालवर्तिनोश्च वासुदेवयोः षष्ठसप्तमयोरेकोनत्रिंशत्पड्डि
शतिश्च धनुषां युज्यत इति, इहोक्ता तु पञ्चत्रिंशत् स्यात् यदि दत्तनन्दनौ कुन्थुनाथतीर्थकाले भवतो, न चैतदेवं 8 |जिनान्तरेष्वधीयत इति दुरवबोधमिदमिति । सौधर्मकल्पे सौधर्मावतंसकादिषु विमानेषु सर्वेषु पञ्च पञ्च सभा भIRIवन्ति-सुधर्मसभा १ उपपातसभा २ अभिषेकसभा ३ अलङ्कारसभा ४ व्यवसायसभा ५, तत्र सुधर्मसभामध्यभागे|
मणिपीठिकोपरि षष्टियोजनमानो माणवको नाम चैत्यस्तम्भोऽस्ति, तत्र 'वइरामएसुत्ति वज्रमयेषु तथा गोलवद्वृत्ता
प्रत अनुक्रम [१११]
सत्य-वचनस्य पञ्चत्रिशत अतिशया: / लक्षणा:
~138~