SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७४१] + गाथा: प्रत सूत्रांक [७४१] ॐॐॐ5453 मोसंति, 'उप्पन्नमीसए'त्ति उत्सन्नविषयं मिश्र-सत्यामृषा उत्पन्न मित्रं तदेवोत्पन्नमिश्रक, यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्यूनाधिकभावे व्यवहारतोऽस्य सत्यामृपात्वात् , श्वस्ते शतं दास्यामीत्यभिधाय पञ्चाशत्यपि दत्तायां लोके मृषात्यादर्शनादनुत्पन्नेष्वेवादत्तेष्वेव वा मृपात्वसिद्धेः, सर्वथा क्रियाऽभावेन सर्वथा व्यत्ययाद्, एवं विगतादिष्यपि भावनीयमिति १, 'विगतमीसए'त्ति विगतविषयं मिश्रकं विगतमिश्रक, यथैकं ग्राममधिकृत्यास्मिनद्य दश वृद्धा विगता इत्यभिदधतो न्यूनाधिकभावे मिश्रमिति २, 'उप्पन्नविगयमीसए'त्ति उत्पन्नं च विगतं च उत्पन्नविगते तद्विषयं मिश्रकं उत्पन्नविगतमिश्रक, यथैकं पत्तनमधिकृत्यास्मिन्नद्य दश दारका जाताः दश च वृद्धा विगता इत्यभिदधतस्तन्यूनाधिकभाव इति ३, 'जीवमीसए'त्ति जीवविषयं मिश्र-सत्यासत्यं जीवमिश्र, यथा जीवन्मृतकृमिराशी जीवराशिरिति ४, "अजीवमीसए'त्ति अजीवानाश्रित्य मिश्रमजीवमिश्र, यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीव राशिरिति ५, 'जीवाजीवमिस्सए'त्ति जीवाजीवविषयं मिश्रकं जीवाजीवमिश्रक यथा तस्मिन्नेव जीवन्मृतकृमिराशी ४ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकत्वे ६, 'अणंतमीसएति अनन्तविषयं मिश्र कमनन्तमिश्रकं यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायोऽयमित्यभिदधतः ७, 'परित्तमिस्सएत्ति परीत्तविषयं मिश्रक परीत्तमिश्रकं यथा अनन्तकायले शवति परीते परीत्तोऽयमित्यभिदधतः८,'अद्धामिस्सए'त्ति कालविषयं सत्यासत्यं यथा कश्चित् कस्मिंश्चित्प्रयोजने सहायांस्स्वरयन् परिणतप्राये वा वासरे एव रजनी वर्तत इति ब्रवीति ९, 'अद्वद्धामीसपत्ति अद्धा-दिवसो रजनी वा तदेकदेशः प्रहरादिः अद्धद्धा तद्विषयं मिश्रक-सत्यासत्यं अद्धाद्धामिश्रक, यथा CRORS गाथा दीप अनुक्रम [९३८-९४२] Editor पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~414~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy