SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७२८] -- प्रत - सूत्रांक [७२८] झमि । सत्तेव य तेवीसे सिहरतले वित्थडो होइ ॥ २॥” इति [ सप्तदशैकविंशतियोजनशतानि स समुद्विद्धः । दश चैव योजनशतानि द्वाविंशत्यधिकान्यधः विस्तृतः॥१॥ चतुर्विशत्यधिकचतुर्योजनशतानि मध्ये विस्तृतः त्रयोविंशत्य|धिकसप्तशतानि शिखरतले विस्तृतः भवति ॥ २॥] स च रत्नमयः पद्मवरवेदिकया वनखण्डेन च परिक्षिप्तः, तस्य च मध्येऽशोकावतंसको देवप्रसाद इति । 'चमरस्सेत्यादि, 'महारन्नोति लोकपालस्य सोमप्रभ उत्सातपर्वतः अरुणोदसमुद्र एव भवति, एवं यमवरुणवैश्रमणसूत्राणि नेयानीति । 'बलिस्से त्यादि, रुचकेन्द्र उत्सातपर्वतोऽरुणोदसमुद्रे एव भवति, यथोक्तम्- "अरुणस्स उत्तरेणं बायालीसं भवे सहस्साई । ओगाहिऊण उदहिं सिलनिचओ रायहाणीओ ॥१॥” इति [ अरुणस्योत्तरस्यां द्विचत्वारिंशतं सहस्राण्यवगाह्योदधि पर्वतः तत्र चतस्रो राजधान्यः॥१॥] 'बलिस्सेत्यादि, 'बईत्यादि सूत्रसूचा, एवं च दृश्यं वइरोयणिंदस्त वइरोयणरन्नो सोमस्स य महारन्नो' 'एवं वत्ति अतिदेशः, एतभावना-'जहे'त्यादि, यथा यत्प्रकारं चमरस्य लोकपालानामुत्पातपर्वतप्रमाणे प्रत्येक चतुर्भिः सूत्रैरुक्तं तं चेव'त्ति | तत्प्रकारमेव चतुर्भिः सूत्रः बलिनोऽपि वैरोचनेन्द्रस्यापि वक्तव्यं, समानत्वादिति, "धरणस्से त्यादि, धरणस्योसातपर्वतोऽरुणोद एव समुद्रे भवति, 'धरणस्से'त्यादि प्रथमलोकपालसूत्रे 'एवं चेव'त्तिकरणात् 'उच्चत्तेणं दस गाउयसयाई उन्हेण'मित्यादि सूत्रमतिदिष्ट, 'एवं जाव संखपालस्स'त्तिकरणाच्छेषाणां त्रयाणां लोकपालानां कोलवालसेलवालसंखवालाभिधानानामुत्पातपर्वताभिधायीनि त्रीण्यन्यानि सूत्राणि दर्शयति । एवं भूयाणंदस्सवित्ति भूतानन्दस्यापि औदीच्यनागराजस्यापि उत्पातपर्वतस्तस्य नाम प्रमाणं च वाच्यं, यथा धरणस्येत्यर्थः, भूतानन्दप्रभश्चोत्पातपर्वतोऽरुणो दीप अनुक्रम [९१९] Eco N avam पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~398~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy