________________
आगम
(०३)
प्रत
सूत्रांक
[५८-६०]
दीप
अनुक्रम [५८-६०]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
॥ ४२ ॥
ततो जाता स्पृष्टिजा, तथैव स्पृष्टिकाऽपीति । आद्या द्वेधा - 'जीवदिट्टिया चेव'त्ति या अभ्वादिदर्शनार्थ गच्छतः, तथा 'अजीवदिडिया चैवत्ति अजीवानां चित्रकर्मादीनां दर्शनार्थं गच्छतो या सा अजीवदृष्टिकेति, एवं 'पुट्टिया चेव'त्ति 'एवमिति जीवाजीवभेदेन द्विधैव, तथाहि जीवमजीवं वा रागद्वेषाभ्यां पृच्छतः स्पृशतो वा या सा जीवपू|ष्टिका जीवस्पृष्टिका वा अजीवपृष्टिका अजीवस्पृष्टिका वेति । पुनरन्यथा द्वे - ' पाडुच्चिया चेव'त्ति बाह्यं वस्तु प्रतीत्य* आश्रित्य भवा प्रातीत्यिकी तथा 'सामन्तोवणिवाहया चेव'त्ति समन्तात् सर्वत उपनिपातो - जनमीलकस्तस्मिन् भवा सामन्तोपनिपातिकी आद्या द्वेधा- 'जीवपाडुचिया चेव'त्ति जीवं प्रतीत्य यः कर्मबन्धः सा तथा, तथा 'अजीपाडुचिया चेव'ति अजीवं प्रतीत्य यो रागद्वेषोद्भवस्तज्जो वा बन्धः सा अजीवप्रातीत्यिकीति । द्वितीयापि द्विधैवेत्यतिदिशन्नाह - 'एवं सामन्तोवणिवाइयावि'त्ति, तथाहि कस्यापि पण्डो रूपवानस्ति तं च जनो यथा यथा प्रलोकयति प्रशंसयति च तथा तथा तत्स्वामी हृष्यतीति जीवसामन्तोपनिपातिकी, तथा रथादौ तथैव हृष्यतोऽजीवसामन्तोपनिपातिकीति, अन्यथा वा द्वे 'साहस्थिया चैवत्ति स्वहस्तेन निर्वृत्ता स्वाहस्तिकी तथा 'नेसत्थिया चेव'ति, निसर्जनं निसृष्टं, क्षेपणमित्यर्थः, तत्र भवा तदेव वा नैसृष्टिकी, निसृजतो यः कर्म्मबन्ध इत्यर्थः, निसर्ग एव वेति, तत्र आद्या द्वेधा- 'जीवसाहत्थिया चेव'त्ति यत् स्वहस्तगृहीतेन जीवेन जीवं मारयति सा जीवस्वाहस्तिकी, तथा 'अजीव साहित्थिया चैवत्ति यच्च स्वहस्तगृहीतेनैवाजीवेन-खड्गादिना जीवं मारयति सा अजीवस्वाहस्तिकीर्ति, अथवा स्वहस्तेन जीवं ताडयत एका, अजीवं ताडयतोऽन्येति । द्वितीयाऽपि जीवाजीवभेदैवेत्यतिदिशन्नाह - 'एवं नेसत्थिया
श्रीस्थानासूत्रवृत्तिः
Education
क्रियानाम् दुवैविध्यं
For Personal & Pre Only
~94~
BSP
२ स्थानकाध्ययने क्रियाणां द्वैविध्यं
॥ ४२ ॥