SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [१], मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 5 P4-- प्रत सूत्रांक 5 [५८-६० -564 दीप अनुक्रम [५८-६०] कीति, एवं 'पारिग्गहिया चेव'त्ति आरम्भिकीवद् द्विविधेत्यर्थः, जीवाजीवपरिग्रहमभवत्वात् तस्या इति भावः। पुनरन्यथा द्वे 'मायावत्तिया चेव'त्ति माया-शाठ्यं प्रत्ययो-निमित्तं यस्याः कर्मबन्धक्रियाया व्यापारस्य वा सा तथा, 'मिच्छादंसणवतिया चेव'त्ति मिथ्यादर्शनं-मिथ्यात्वं प्रत्ययो यस्याः सा तथेति, आद्या द्वेधा-'आयभाववंकणया चेवत्ति आत्मभावस्याप्रशस्तस्य बनता-वक्रीकरण प्रशस्तत्वोपदर्शनता आत्मभाववङ्कनता, वनानां च बहुत्वविवक्षायां भावप्रत्ययो न विरुद्धः, सा च क्रिया व्यापारत्वात् , तथा 'परभाववंकणया चेव'त्ति परभावस्य बनता-पञ्चनता या कूटलेखकरणादिभिः सा परभाववङ्कनतेति, यतो वृद्धव्याख्येयं-"तं तं भावमायरइ जेण परो वंचिजह कूडलेहकरणाईहि"ति, द्वितीयाऽपि द्वेधा-'ऊणाइरित्तमिच्छादसणवत्तिया चेय'त्ति ऊन-स्वप्रमाणाद्धीनमतिरिक्तछाततोऽधिकमास्मादि वस्तु तद्विषयं मिथ्यादर्शनमूनातिरिक्तमिथ्यादर्शनं तदेव प्रत्ययो यस्याः सा ऊनातिरिक्तमिथ्यादर्शन-13 प्रत्ययेति, तथाहि-कोऽपि मिथ्यादृष्टिरात्मानं शरीरव्यापकमपि अङ्गुष्ठपर्वमात्रं [यवमात्र] श्यामाकतन्दुलमानं वेति हीनतया वेत्ति तथाऽन्यः पञ्चधनुःशतिकं सर्वव्यापकं वेत्यधिकतयाऽभिमन्यते, तथा 'तब्वइरित्तमिच्छादसणवत्तिया चेव'त्ति तस्माद्-ऊनातिरिक्तमिथ्यादर्शनाद् व्यतिरिक्तं मिथ्यादर्शनं-नास्त्येवात्मेत्यादिमतरूपं प्रत्ययो यस्याः सा तथेति । पुनरन्यथा द्वे-दिडिया चेव'त्ति दृष्टेर्जाता दृष्टिजा अथवा दृष्ट-दर्शनं वस्तु वा निमित्ततया यस्यामस्ति सा दृष्टिकादर्शनार्थं या गतिक्रिया, दर्शनाद् वा यत्कर्मोदेति सा दृष्टिजा दृष्टिका वा, तथा 'पुट्ठिया चेव'त्ति पृष्टिः-पृच्छा ततो जाता पृष्टिजा-प्रश्नजनितो व्यापारः, अथवा पृष्ट-प्रक्षः वस्तु वा तदस्ति कारणत्वेन यस्यां सा पृष्टिकेति, अथवा स्पृष्टिः स्पर्शनं 5-15% 80-560564561545 CREACHES % क्रियानाम् वैविध्यं ~93~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy