________________
आगम
(०३)
प्रत
सूत्रांक
[५१]
दीप
अनुक्रम
[५१]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [५१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र - [ ०३ ], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
यस्य स एकगुणः, एकगुणः कालो वर्णो येषां ते एकगुणकालकाः, तारतम्येन कृष्णतरकृष्णतमादीनां येभ्य आरभ्य प्रथममुत्कर्षप्रवृत्तिर्भवतीति भावस्तेषाम् एवं सर्वाण्यपि भावसूत्राणि षष्ट्यधिकद्विशतप्रमाणानि वाच्यानि २६०, | विंशतेः कृष्णादिभावानां त्रयोदशभिर्गुणनादिति । साम्प्रतं भज्यन्तरेण द्रव्यादिविशेषितानां जघन्यादिभेदभिन्नानां स्कन्धानां वर्गणैकत्वमाह - 'एगा जहन्नप्पएसियाण' मित्यादि, जघन्याः - सर्वाल्पाः प्रदेशाः परमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः, व्यणुकादेय इत्यर्थः स्कन्धाः - अणुसमुदयास्तेषां उत्कर्षन्तीत्युत्कर्षा:- उत्कर्षवन्तः उत्कृष्टसङ्ख्याः | परमानन्ताः प्रदेशा:-अणवस्ते सन्ति येषां ते उत्कर्षप्रदेशिकाः तेषां जघन्याश्च उत्कर्षाश्च जघन्योत्कर्षाः न तथा ये ते अजघन्योत्कर्षाः, मध्यमा इत्यर्थः, ते प्रदेशाः सन्ति येषां ते अजघन्योत्कर्षप्रदेशिकास्तेषाम् एतेषां चानन्तवर्गणत्वेऽप्यजघन्योत्कर्षशब्दव्यपदेश्यत्वादेकवर्गणात्यमिति । 'जहन्नोगाहणगाणं' ति अवगाहन्ते - आसते यस्यां साऽवगाहना-शेप्रदेशरूपा सा जघन्या येषां ते स्वार्थिककप्रत्ययाज्जघन्यावगाहनकास्तेषाम्, एकप्रदेशावगाढानामित्यर्थः, उत्कर्षावगाहनकानामसङ्ख्यातप्रदेशावगाढानामित्यर्थः, अजघन्योत्कर्षावगाहनकानां सङ्ख्येयासज्येयप्रदेशावगाढानामित्यर्थः । जघन्या -जघन्यसङ्ख्या समयापेक्षया स्थितिर्येषां ते जघन्यस्थितिकाः, एकसमयस्थितिका इत्यर्थः तेषां उत्कर्षा- उत्कर्षवत्सङ्ख्या समयापेक्षया स्थितिर्येषां ते तथा तेपामसङ्ख्यातसमयस्थितिकानामित्यर्थः, तृतीयं कण्ठ्यं जघन्येन - जघन्यस| तथाविशेषेणैकेनेत्यर्थः गुणो-गुणनं ताडनं यस्य स तथा (तथा) विधः कालो वर्णो येषां ते जघन्यगुणकालकास्तेषाम् एवमुक्क१ एकस्मादारभ्य दशान्ताः संख्यावेयानन्तावेति त्रयोदश २ खखवर्गणायां जघन्यानां वर्गणानामनेकविधत्वात् कादय इति.
|
सिध्धानाम पंचदश-भेदा:
For Personal & Pre Only
~79~
weary on