________________
आगम
(०३)
प्रत सूत्रांक
[ ३५४ ]
दीप
अनुक्रम [३८१]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ३५४]
स्थान [ ४ ],
उद्देशक [४],
भावना भणिता ॥ १ ॥ ] आसाच मध्ये यो यस्यां भावनायां वर्त्तते स तद्विधेषु देवेषु गच्छति चारित्रलेशप्रभावाद्, उक्तञ्च - "जो संजओऽवि एयासु अप्पसत्थासु वट्टइ कहंचि । सो तन्त्रिहेसु गच्छइ सुरेसु भइओ चरणहीणो ॥ १ ॥ " [यः संयतोऽप्येतासु अप्रशस्तासु वर्त्तते कथञ्चित् । स तद्विधेषु सुरेषु गच्छति भक्तश्चरणहीनः ॥ १ ॥] इति, आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यसुरादिभावना स्वरूपभूतान्यसुरादित्य साधनकर्म्मणां कारणानि सूत्रचतुष्टयेनाह-'चउहिं ठाणेही' त्यादि कण्ठ्यं, नवरं असुरेषु भव आसुरः-असुरविशेषस्तद्भावः आसुरत्वं तस्मै आसुरस्याय त दर्थमित्यर्थः, अथवा असुरतायै असुरतया वा कर्म-तदायुष्कादि प्रकुर्वन्ति-कर्त्तुमारभन्ते, तद्यथा - क्रोधनशीलतयाकोपस्वभावत्वेन प्राभृतशीलतया - कलन सम्बन्धतया संसक्ततपःकर्म्मणा - आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन | निमित्ताजीवनसया त्रैकालिक लाभालाभादिविषयनिमित्तोपात्ताहाराद्युपजीवनेनेति, अयमथऽन्यत्रैवमुक्तः - " अणुबद्धविग्गहोंबिय संसत्ततवो निमित्तमाएसी । निक्किवणिराणुकंपो आसुरियं भावणं कुणइ ॥ १ ॥ " [अनुबद्धविग्रहः संसक्ततपा निमित्तादेशी निष्कृपः निरनुकंप: आसुरिकीं भावनां करोति ॥ १ ॥] इति तथा अभियोग-व्यापारणमर्हन्तीत्या|भियोग्याः किङ्करदेवविशेषास्तद्भावस्तत्ता तस्यै तया वेति, आत्मोत्कर्षेण-आत्मगुणाभिमानेन परपरिवादेन - परदोषपरिकीर्तनेन भूतिकर्मणां ज्वरितादीनां भूत्यादिभी रक्षादिकरणेन कौतुककरणेन सौभाग्यादिनिमित्तं परस्त्रपनकादिकरणेनेति, इयमप्येवमन्यत्र - "कोउय भूईकम्मे पसिणा इयरे निमित्तमाजीवी । इहिरससायगरुओ अभिओगं भावणं कुणइ ॥ १ ॥” इति [ प्रश्नोऽङ्गुष्ठप्रश्नादिरितरः स्वमविद्यादिरिति > [ कौतुकं भूतिकर्म प्रश्नः इतर ( स्वमादिः) निमित्ताजीवी
Education tamational
Far Far & Private Only
~559~