________________
आगम
(०३)
प्रत
सूत्रांक
[१७-४३]
दीप
अनुक्रम
[१७-४३]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [४३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
ग्राह्यत्वात् अस्य, यतः - "आणागेझो अत्थो आणाए चैव सो कहेयच्यो । दिता दिनंतिअ कहणविहिविराहणा इह ॥ १ ॥” इति दृष्टान्ताद्दान्तिकोऽर्थ इत्यर्थः । ननु सामान्याश्रयैकरथेनैव सूत्रं गमकं भविष्यतीति किमनेन विशेषव्याख्यानेनेति ?, उच्यते नैवं सामान्यैकत्वस्य पूर्वसूत्रैरेवाभिहितत्वादस्य पुनरुक्तत्वप्रसङ्गाद् देवादिग्रहणसमयग्रहणयोश्च वैयर्थ्यप्रसङ्गाच्चेति । इह च देवादिग्रहणं विशिष्टवैक्रियलब्धिसम्पन्नतयैषामनेकशरीररचने सत्येकदा मनोयोगादीनामनेकत्वं शरीरवद् भविष्यतीति प्रतिपत्तिनिरासार्थं, न तु तिर्यग्नारकाणां व्यवच्छेदार्थे, ननु तिर्यग्नारका अपि वैक्रियलब्धिमन्तस्तेषामपि विक्रियायां शरीरानेकत्वेन मनःप्रभृतीनामनेकत्वप्रतिपत्तिः सम्भाव्यत एवेति तग्रहणमपि न्याय्यमिति, सत्यम्, किन्तु देवादीनां विशिष्टतरलब्धितया शरीराणामत्यन्तानेतेति तग्रहणं, तथा 'प्रधानग्रहण इतरग्रहणं भवतीति न्यायाददोषो, नारकादिभ्यश्च देवादीनां प्रधानत्वं प्रतीतमेवेति एतेषां च मनःप्रभृतीनां यथाप्राधान्यकृतः क्रमः प्रधानत्वं च बल्पाल्पतरकर्मक्षयोपशमप्रभवलाभ कृतमिति ॥ कायव्यायामस्यैव भेदानामेकतामाह - 'एगे उडाणे त्यादि, उत्थानं च चेष्टाविशेषः कर्म्म च-भ्रमणादिक्रिया बलं च शरीरसामर्थ्यं वीर्य च जीवप्रभवं पुरुषकारश्च-अभिमानविशेषः पराक्रमश्च- पुरुषकार एव निष्पादितस्वविषय इति विग्रहे द्वन्द्वैकवद्भावः, एते च वीर्यान्तराय[ क्षय ] क्षयोपशमसमुत्था जीवपरिणामविशेषाः, एतेषु प्रत्येकमेकशब्दो योजनीयो, वीर्यान्तर [क्षय ]क्षयोपशमवैचित्र्यतः प्रत्येकं जघन्यादि भेदैरनेकत्वेऽप्येषामेकजीवस्यैकदा [क्षय ]क्षयोपशममात्राया एकविधत्वादेक एव ज
१ आज्ञामाश्योऽर्थं आइमैन स कथयितव्यः । दृष्टान्ताद्दाष्टन्तिकः कथनविधेरितरथा विराधना ॥ १ ॥
For Personal & Pre Only
~ 55~