SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३८] बालाभस्य क्रयणे हेतोः सतो दृष्टान्ततयोपन्यस्तत्वाद्धेतूपन्यासोपनयज्ञाततेति, इह च किश्चिद्विशेषेणैवंविधा ज्ञातभेदाः। सम्भवन्त्यन्येऽपि किन्तु ते न विवक्षिताः अन्तर्भावो वा कथश्चित् गुरुभिर्विवक्षितो न च तं वयं सम्यग् जानीम इति । अथ ज्ञातानंतरं ज्ञातवद्धेतोः साध्यसिद्ध्यङ्गत्वात् तद्भेदान हेऊ इत्यादिना सूत्रत्रयेणाह-व्यक्तं चैतत्, नवरं हिनोति-18 गमयति ज्ञेयमिति हेतुः-अन्यथाऽनुपपत्तिलक्षणः, उक्तश्च-"अन्यथाऽनुपपन्नत्वं, हेतोर्लक्षणमीरितम् । तदप्रसिद्धिसन्देह| विपर्यासैस्तदाभता ॥१॥" इति, प्रागुक्तश्च हेतुः पर्यनुयुक्तस्योत्तररूपमुपपत्तिमात्रमयं तु साध्यं प्रत्यन्वयव्यतिरेकवान् 18| तथाविघदृष्टान्तस्मृततद्भाव इति, स चैकलक्षणोऽपि किचिद्विशेषाचतुर्डा, तत्र 'जावए'त्ति यापयति-वादिनः कालया-18 | पनां करोति, यथा काचिदसती एकैकरूपकेण एकैकमुष्ट्रलिण्डं दातव्यमिति दत्तशिक्षस्य पत्युस्तद्विक्रयार्थेमुज्जयनीप्रेष-1 णोपायेन विटसेवायां कालयापनां कृतवतीति यापका, उक्तञ्च-"उब्भामिया य महिला जावगहेउम्मि उट्टलिंडाई ॥" इति, इह वृद्घाख्यातम्-प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहुलो हेतुः कर्त्तव्यो यथा कालयापना भवति, ततो|ऽसौ नावगच्छति प्रकृतमिति, स चेदृशः सम्भाव्यते-सचेतना वायवः अपरप्रेरणे सति तियगनियतत्वाभ्यां गतिम-16 चात् गोशरीरवदिति, अयं हि हेतुर्विशेषणबहुलतया परस्य दुरधिगमत्वात् वादिनः कालयापनां करोति, स्वरूपमस्या-12 नवबुज्यमानो हि परो न झगित्येवानकान्तिकत्वादिदूषणोद्भावनाय प्रवर्तितुं शक्नोति, अतो भवत्यस्माद् वादिनः काल-18 नयापनेति, अथवा योऽप्रतीतव्याप्तिकतया व्याप्तिसाधकप्रमाणान्तरसव्यपेक्षत्वान्न झगित्येव साध्यप्रतीतिं करोति अपि तु| कालक्षेपेणेत्यसौ साध्यप्रतीति प्रति कालयापनाकारित्वाद्यापकः, यथा क्षणिक वस्त्विति पो बौद्धस्य सत्त्वादिति हेतुः, दीप अनुक्रम [३६०] ABERucatanimal ~531~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy