SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक -1, मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत 551-58 सूत्रांक [१७-४३] दीप अनुक्रम [१७-४३] |दित्वाच्च जातशब्दस्योत्तरपदत्वमिति, अथवा पर्यवान् पर्यवेषु वा यातः-प्राप्तः पर्यषयातोऽथवा पर्यवः-परिरक्षा परिज्ञान वा शेष तथैवेति ॥ धर्माधर्मप्रतिमे च योगत्रयाद्भवत इति तत्स्वरूपमाह___ 'एगे मणे' इत्यादि सूत्रत्रय, तत्र मन इति मनोयोगः, तच्च यस्मिन् २ समये विचार्यते तस्मिन् २ 'समये' कालविशेष एकमेव, वीप्सानिर्देशेन न कचनापि समये तद् ब्यादिसंख्यं सम्भवतीत्याह, एकत्वं च तस्यैकोपयोगत्वात् जीवानां, स्यादेतत्-नैकोपयोगो जीवो, युगपच्छीतोष्णस्पर्शविषयसंवेदनद्वयदर्शनात्, तथाविधभिन्नविषयोपयोगपुरुषद्वयवत् , अत्रोच्यते, यदिदं शीतोष्णोपयोगद्वयं तत्स्वरूपेण भिन्नकालमपि समयमनसोरतिसूक्ष्मतया युगपदिव प्रतीयते, न पुनस्तद्युगपदेवेति, आह च-"समयातिसुहुमयाओ मनसि जुगवं च भिन्नकालंपि । उप्पलदलसयवेहं व जह व तम-| लायचकति ॥ १ ॥" यदि पुनरेकत्रोपयुक्तं मनोऽर्थान्तरमपि संवेदयति तदा किमन्यत्रगतचेताः पुरोऽवस्थितं हस्तिनमपि न विषयीकरोतीति, आह च-"अन्नविणिउत्तमन्नं विणिओगं लहइ जइ मणो तेणं । हत्यिपि ठियं पुरओ किमन्नचित्तो न लक्खेइ ॥१॥"त्ति इह च बहुवक्तव्यमस्ति तत् स्थानान्तरादवसेयमिति, अथवा सत्यासत्योभयस्वभावानुभयरूपाणां चतुर्णी मनोयोगानामन्यतर एव भवत्येकदा, यादीनां विरोधेनासम्भवादिति, केषामित्याह-'देवासुरमणुयाणं'ति तत्र दीव्यन्ति इति देवा-वैमानिकज्योतिष्कास्ते च न सुरा असुरा:-भवनपतिव्यन्तरास्ते च मनो समयातिसौषम्यात् मन्यसे युगपञ्च भिन्नकालमपि । उत्पलदलशतवेध इच यथा वा तदलातचकमिति ॥१॥ २ अन्य विनियुफमम्य विनियोग लभते यदि मनस्तेन । हस्तिनमपि स्थितं पुरतः किमन्यचित्तो न लक्षयति॥१॥ CONCR ~53~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy