________________
आगम
(०३)
प्रत
सूत्रांक
[३३८]
दीप
अनुक्रम [३६०]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [३], मूलं [ ३३८ ]
स्थान [ ४ ], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
सा विधेयेति यत्रोपदिश्यते साऽनुशास्तिः, यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितरजःकणापन-' यनेन लोकसम्भावितशीलकलङ्का तत्क्षालनायाराधितदेवताकृतप्रातिहार्या चालनीव्यवस्थापितोदकाच्छोदनोद्घाटितचंपागोपुरत्रया सुभद्रा अहो शीलवतीति महाजनेनानुशासितेति, उक्तं च- "आहरणं तदेसे चउहा अणुसट्ठि तह उवालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्टीए ॥ १ ॥ साहुकारपुरोयं जह सा अणुसासिया पुरजणेणं । वेयावच्चाईसुचि एव जयंतेववूहेजा ॥ २ ॥” इति इह च तथाविधवैयावृत्त्य करणादिनाप्युपनयः सम्भवति तत्यागेन च महाजनानुशास्तिमात्रेणोपनयः कृत इत्याहरणतदेशतेति एवमनभिमतांशत्यागादभिमतांशोपनयनमुत्तरेष्वपि भावनीयमिति, तथा उपालम्भनं उपालम्भो-भयन्तरेणानुशासनमेव स यत्राभिधीयते स उपालंभो यथा कचिदपराधवृत्तयो विनेया उपालम्भनीयाः यथा महावीरसमवसरणे सविमानागतचन्द्रादित्योद्योतेन कालविभागमजानती मृगावतीनाम्नी साध्वी स्थिता ततस्तद्गमनेऽतिकालोऽयमिति सम्भ्रान्ता सह साध्वीभिरार्यचन्दनासमीपं गता तया चोपालब्धा - अयुक्तमिदं | भवादृशीनामुत्तमकुल जातानामिति तथा पृच्छा-प्रश्नः किं कथं केन कृतमित्यादि सा यत्र विधेयतयोपदिश्यते सा पृच्छा, यथा प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टः, तथाहि किल कोणिकः श्रेणिकराजपुत्रः श्रमण भगवन्तं महावीरं पप्रच्छ तद्यथा-भदन्त । चक्रवर्त्तिनोऽपरित्यक्तकामा मृताः कोलद्यन्ते १, भगवताऽभिहितं
आहरणस्य भेदा:
१ आहरणं देथे चतुर्थी अनुशास्तिस्तथोपाभः पृच्छा निभावचनं भवति सुभदा नुशास्ती ॥ १ ॥ साधुकारपूर्वक यथा साऽनुशिष्टा पौरजनेन वैदास्वादिष्यपि एवं यतमानापयेत् ॥ २ ॥
Education Intimational
For Personal & Pre Only
~525~
www.nary on