SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३८] 46045614455445%85%25-5 ज्ञातम् , उपनयश्चायमत्र-कर्दमस्थानीया विषयाः पुण्डरीकं राजादिव्यपुरुषः चत्वारः पुरुषाः परतीर्थिकाः पञ्चमः पुरुषः साधुः अमोधवचनं धर्मदेशना पुष्करिणी संसारः तदुद्धारो निर्वाणमिति, अनेन च ज्ञातेन विषयाभिष्वङ्गवतां तीथिकानां भव्यस्य संसारानुत्तारकत्वं साधोश्च तद्विपर्ययं बदता आचार्येण परमतदूषणेन स्वमतं स्थापितमतो भवतीदं ज्ञातं स्थापनाकम्र्मेति, अथवाऽऽपन्नं दूषणमपोह्य स्वाभिमतस्थापना कार्येत्येवंविधार्थप्रतिपत्तिर्यतो जायते तत्स्थापनाकर्म, किल मालाकारेण केनापि राजमार्गपुरीपोत्सर्गलक्षणापराधापोहाय तत्स्थाने पुष्पपुञ्जकरणेन किमिदमिति पृच्छतो लोकस्य हिंगुशिवो देवोऽयमिति बदता व्यन्तरायतनस्थापना कृतेति, एतस्मारिकलाख्यानकादुक्तार्थः प्रतीयत इतीद स्थापनाकम्भेति, तथा नित्यानित्यं वस्त्वित्यसङ्गतं जिनमतं विरुद्धधर्माध्यासादिति दूषणमापन्नमेतद्व्यपोहायोच्यतेविरुद्धधर्माध्यासो न भेदनिबन्धनं विकल्पस्येव, विकल्पो हि क्रमभाविवर्णो लेखवान् विरुद्धधम्मोपेतो भवति, न च कथचिदेको न भवति, खण्डशो विभक्तस्य तस्य स्वरूपलाभाभावात् प्रवृत्तिनिवृत्त्योरकारणता स्यादसमञ्जसं चैवमिति, एवश्च विरुद्धधर्माध्यासस्य कथश्चिदभेदकत्वे सति न केवलं नित्यानित्यं न भवतीति दूषणमपोढमपि तु सर्वमनेकान्तात्मकमिति विकल्पज्ञानेन स्वमतं प्रसाधितम् , अतो विकल्पज्ञातं स्वमतस्थापनेन स्थापनाकर्मेति, अन नियुक्तिगाथा:"ठेवणाकम्मं एक [अभेदमित्यर्थः> दिढतो तत्थ पुंडरीयं तु । अहवाऽवि सनढकण हिंगुसिवकर्य उदाहरणं ॥१॥" इति, सव्यभिचारी हेतुर्यः सहसोपन्यस्तस्तस्य समर्थनार्थ यो दृष्टान्तः पुनरुपन्यस्यते स स्थापनाकर्मेति, उक्तं च १ स्थापना कर्म अभिन्न स्थान्तसन पुटरीकं तु अथवा पिसंहाच्यादयगिविलदेवतमुदाहरणम् ॥1॥ दीप अनुक्रम [३६०] ABERucatunintmail wwwjangala आहरणस्य भेदा: ~523~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy