SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत * सूत्रांक [३३४] * योरन्यतरस्यामभिग्रहः, गच्छान्तरगतानां तु चतस्रोऽपि कल्पन्त इति, वस्त्रप्रतिमा-वस्त्रग्रहणविषये प्रतिज्ञाः, कार्पासिकादीत्येवमुद्दिष्टं वखं याचिध्ये इति प्रथमा, तथा प्रेक्षितं वस्खं याचिष्ये नापरमिति द्वितीया, तथाऽऽन्तरपरिभोगेनोत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्राय बखं ग्रहीष्यामीति तृतीया, तथा तदेवोत्सृष्टधर्मकं ग्रहीष्यामीति चतुर्थी, पात्रप्रतिमा उद्दिष्टं दारुपानादि याचिध्ये १, तथा प्रेक्षितं २ तथा दातुः स्वाङ्गिक परिभुक्तप्रायं द्वित्रेषु वा पात्रेषु पर्यायेण परिभुग्यमानं पात्रं याचिष्य इति तृतीया, उज्झितधर्मकमिति चतुर्थी, स्थान-कायोत्सर्गायर्थ आश्रयः तत्र प्रतिमाः स्थानप्रतिमाः, तत्र कस्यचिद् भिक्षोरेवंभूतोऽभिग्रहो भवति यथा-अहमचित्तं स्थानमुपाश्रयिष्यामि तत्र चाकुश्चनप्रसारणादिकां क्रियां करिष्ये, तथा किञ्चिदचित्तं कुब्यादिकमवलम्बयिष्ये, तथा तत्रैव स्तोकपादविहरणं समा-* साधयिष्यामीति प्रथमा प्रतिमा, द्वितीया त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति, तृतीया स्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति, चतुथीं पुनर्यत्र त्रयमपि न विधत्ते । अनन्तरं शरीरचेष्टानिरोध उक्त #इति शरीरप्रस्तावादिदं सूत्रद्वयं-'चत्तारीत्यादि व्यक्तं, किन्तु जीवेन स्पृष्टानि-व्याप्तानि जीवस्पृष्टानि, जीवेन हि स्पृष्टा-1 शान्येव वैक्रियादीनि भवन्ति, न तु यथा औदारिकं जीवमुक्तमपि भवति मृतावस्थायां तथैतानीति, 'कम्मुम्मीसग'त्ति कार्मणेन शरीरेणोन्मिश्रकाणि न केवलानि यधौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्राग्यपि भवन्ति नैवं कार्मणेनेति भावः । शरीराणि कार्मणेनोन्मिश्राणीत्युक्तमुन्मिश्राणि च स्पृष्टान्येवेति स्पृष्टप्रस्तावात् सूत्रद्वयं-'चउही'त्यादि, गतार्थं, केवलं 'फुडे'त्ति स्पृष्टः प्रतिप्रदेश व्याप्तः, सूक्ष्माणां पञ्चानामपि सर्वलोकात् सर्वलोके उत्सादात् वादरतैजसानां दीप अनुक्रम [३५६] * **** * ~513~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy