SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२७] भोगसुखादि आस्था वा-इदमेव साध्विति बुद्धिर्यस्य स इहार्थ इहास्थो वा भोगपुरुष इहलोकप्रतिबद्धो वा, परत्रैव जम्मान्तरे अर्थ आस्था वा यस्य स परार्थः परास्थो वा साधुबालतपस्वी वा इह परत्र च यस्यार्थ आस्था वा| स सुश्रावक उभयप्रतिबद्धो वा उभयप्रतिषेधवान् कालशौकरिकादिमूढो वेति, अथवा इहैव विवक्षिते ग्रामादौ तिष्ठतीति इहस्थस्तत्प्रतिवन्धान परस्थो अन्यस्तु परत्र प्रतिबन्धात्परस्थः अन्यस्तूभयस्थः अन्यः सर्वाप्रतिवद्धत्वाद-15 नुभयस्थः साधुरिति । एकेनेति श्रुतेन एकः कश्चिद्वद्धते एकेनेति सम्यग्दर्शनेन हीयते, यधोक्तम्-"जह जह बहु-| स्सुओ संमओ य सीसगणसंपरिवुडो य । अविणिच्छिओ य समए तह तह सिद्धतपडिणीओ ॥१॥" इत्येक तथा एकेन श्रुतेनैवान्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयते इति द्वितीयः, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वर्द्धते | एकेन सम्यग्दर्शनेन हीयते इति तृतीयः, द्वाभ्यां श्रुतानुष्ठानाभ्यां अन्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयत | इति चतुर्थः, अथवा ज्ञानेन वर्द्धते रागेण हीयते इत्येका, अन्यो ज्ञानेन वर्धते रागद्वेषाभ्यां हीयते इति द्वितीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते रागेण हीयते इति तृतीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते रागद्वेषाभ्यां हीयत इति च-४ तुर्थः, अथवा क्रोधेन बर्द्धते मायया हीयते कोपेन वर्द्धते मायालोभाभ्यां हीयते क्रोधमानाभ्यां वर्द्धते मायया हीयते क्रोधमानाभ्यां वर्द्धते मायालोभाभ्यां हीयत इति । प्रकन्थकाः पाठान्तरतः कन्थका वा-अश्वविशेषाः, आकीणों-ज्याप्तो जवादिगुणैः पूर्व पश्चादपि तथैव, अन्यस्त्वाकीर्णः पूर्व पश्चात्खलुको-गलिरविनीत इति, अन्यः पूर्व १ बथा यथा बधुतः संमतच विध्वगणसंपरितच अविनिश्चितो यदि समये तथा तथा सिद्धान्तप्रसनीकः ॥१॥ दीप ******RRESS अनुक्रम [३४९] ~509~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy