________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३२०
CEOCOCCACADEMONDA
च पधियाय्यप्रमत्त उत्पथयायी लिहावशेषः उभययायी प्रमत्तः चतुर्थः सिद्धा, क्रमेण सदसदुभयानुभयानुष्ठानरूपत्वात्, अथवा पथ्युत्पथयोः स्वपरसमयरूपत्वाद् यायित्वस्य च गत्यर्थत्वेन बोधपर्यायत्वात् स्वसमयपरसमयबोधापेक्षयेयं चतुभङ्गी नेयेति, एकं पुष्पं रूपसम्पन्नं न गन्धसम्पन्नमाकुलीपुष्पवत् द्वितीयश्च बकुलस्येव तृतीयं जातेरिव चतुर्थ बदर्यादेरिवेति, पुरुषो रूपसम्पन्नो-रूपवान् सुविहितरूपयुक्तो वेति ७ जाति ६ कुल ५ बल ४ रूप ३ श्रुत २ शील १ चारित्रलक्षणेषु सप्तसु पदेषु एकविंशती द्विकसंयोगेषु एकविंशतिरेव चतुर्भङ्गिकाः कार्याः सुगमाश्चेति, आमलकमिव मधुरं यदन्यत् आमलकमेव वा मधुरमामलकमधुरं 'मुद्दिय'त्ति मृद्वीका-द्राक्षा तद्वत्सैव वा मधुरै मृद्धीकामधुरं क्षीरवत् खण्डवच मधुरमिति विग्रहः, यथैतानि क्रमेणेषद्बहुबहुतरबहुतममाधुर्यवन्ति तथा ये आचार्या ईपद्वहुबहुतरबहुतमोपशमादिगुणलक्षणमाधुर्यवन्तस्ते तत्समानतया व्यपदिश्यन्त इति, आत्मवैयावृत्त्यकरोऽलसो विसम्भोगिको वा परवैयावृत्यकरः स्वार्थनिरपेक्षः स्वपरवैयावृत्त्यकरः स्थविरकल्पिकः कोऽपि उभयनिवृत्तोऽनशनविशेषप्रतिपन्नकादिरिति, करोत्येवैको वैयावृत्त्य निःस्पृहत्वात् १ प्रतीच्छत्येवान्य आचार्यत्वग्लानत्वादिना २ अन्यः करोति प्रतीच्छति च स्थविरविशेषः ३
उभयनिवृत्तस्तु जिनकल्पिकादिरिति ४, 'अट्ठकरे'त्ति अर्थान्-हिताहितप्राप्तिपरिहारादीन् राजादीनां दिग्यात्रादौ है तथोपदेशतः करोतीत्यर्थकर:-मन्त्री नैमित्तिको बा, स चार्थकरो नामैको न मानकरः, कथममनभ्यर्थितः कथयिष्या-10 मीत्यवलेपवर्जितः, एवमितरे प्रया, अत्र च व्यवहारभाष्यगाथा-"पुट्टोपुट्ठो पढमो जत्ताइ हियाहियं परिकहेइ । तइओ
१ पृष्टोऽपृश्ये वा प्रथमो यात्रायां हिवाहित परिकथयति तृतीयः
दीप
अनुक्रम [३४२]
~491~