SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३१९] दीप अनुक्रम [ ३४१] [भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [३], मूलं [ ३१९] स्थान [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ३, तथा अस्तमितश्वासी सूर्य इव दुष्कुलतया दुष्कर्मकारितया च कीर्त्तिसमृद्धिलक्षण तेजोवर्जितत्वादस्तमितश्च दुर्गतिगमनादित्यस्तमितास्तमितः, यथा कालाभिधानः सौकरिकः, स हि सूकरेश्वरति-मृगयां करोतीति यथार्थः सौकरिक एवं दुष्कुलोत्पन्नः प्रतिदिनं महिषपञ्चशतीव्यापादक इति पूर्वमस्तमितः पश्चादपि मृत्वा सप्तमनरकपृथिवीं गत इति अस्तमित एवेति ४, भरहेत्यादि तु उदाहरणसूत्रं भावितार्थमेवेति । ये एवं विचित्रभावैश्चिन्त्यन्ते ते जीवाः सर्व एव चतुर्षु राशिष्ववतरन्तीति तान् दर्शयन्नाह - ' चत्तारि जुम्मेत्यादि, जुम्मत्ति - राशिविशेषः, यो हि राशिचतुष्कापहारेण अपह्रियमाणश्चतुःपर्यवसितो भवति स कृतयुग्म इत्युच्यते यस्तु त्रिपर्यवसितः स ज्योजः द्विपर्यवसितो द्वापरयुग्मः एकपर्यवसितः कल्योज इति, इह गणितपरिभाषायां समराशिर्युग्ममुच्यते विषमस्तु ओज इति, इयञ्च समयस्थितिः, लोके तु कृतयुगादीनि एवमुच्यन्ते - " द्वात्रिंशत्सहस्राणि, कलौ लक्षचतुष्टयम् । वर्षाणां द्वापरादौ स्यादेतद् द्वित्रिचतुर्गुणम् ॥ १ ॥” इति उक्तराशीन्नारकादिषु निरूपयन्नाह - 'नेरइए' स्यादि सुगमं, नवरं नारकादयश्चतुर्द्धाऽपि स्युः, जन्ममरणाभ्यां हीनाधिकत्वसंभवादिति, पुनर्जीवानेव भावैर्निरूपयन्नाह - 'चत्तारि सूरेत्यादि सूत्रद्वयं कण्ठ्यं, किन्तु शूरावीराः, क्षान्तिशूरा अर्हन्तो महावीरवत्, तपःशूरा अनगाराः दृढप्रहारिवत्, दानशूरो वैश्रमण उत्तराशालोकपाल| स्तीर्थकरादिजन्मपारणकादिरत्नवृष्टिपातनादिनेति, उक्तञ्च - "वेसमणवयण संचोइया उ तिरियजंभगा देवा । कोडिग्गसो हिरन्ना रयणाणि य तत्थ उवर्णेति ॥ १ ॥” त्ति, युद्धशूरो वासुदेवः कृष्णवत् तस्य षष्ट्यधिकेषु त्रिषु सङ्ग्रामशतेषु १ वैश्रमणवचनसंचोदितास्तु ते विग्भका देवाः कोशो हिरण्यरनानि च तत्रोपनयन्ति ॥ १ ॥ Education intemational For Personal & Private Use Only ~ 485~ www.anuary.or
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy