________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[७-१६]
दीप अनुक्रम [७-१६]
मना क्षयो मोक्षः, यथाऽत्यन्तापथ्याहारसेवनादनारोग्यम्, तस्यैवापथ्यस्य किश्चित्किञ्चिदपकर्षात् यावत् स्तोकापथ्याहारत्वमारोग्यकरं, सर्वाहारपरित्यागाच प्राणमोक्ष इति, आह च-"पावुकरिसेऽधमया तरतमजोगाऽवकरिसओ सुभया । तस्सेव खए मोक्खो अपत्थभत्तोक्माणाओ ॥१॥" त्ति, अत्रोच्यते, यदुक्तम्-'अत्यन्तापचितात् पापात् सुखप्रकर्ष' इति, तदयुक्तम् , यतो येयं सुखप्रकर्षानुभूतिः सा स्वानुरूपकर्मप्रकर्षजनिता,प्रकर्षानुभूतित्वात् , दुःखप्रकर्षानुभूतिवत्, यथा हिर दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि सुखप्रकर्षानुभूतिः (प्रकर्षानुभूतिरिति)स्वानुरूपपुण्यकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति । पुण्यप्रतिपक्षभूतं पापमिति तत्स्वरूपमाह-एगे पावें'पाशयतिगुण्डयत्यात्मानं पातयति चात्मन आनन्दरसं शोषयति क्षपयतीति पापम् , तच्च ज्ञानावरणादि ब्यशीतिभेदम् , यदाऽऽह"नाणंतरायदसगं १०दसण णव १९ मोहणीयछच्चीसं ४५ । अस्सायं ४६ निरयाऊ४७ नीयागोएण अडयाला ४८॥१॥ निरयदुर्ग २ तिरियदुर्ग ४ जाइचाउकं च ८ पंच संघयणा १३ । संठाणाविय पंच उ १८ बनाइ चउकमपसत्थं २२ ॥२॥ उबघाय २३ कुविहयगई २४ थावरदसगेण होति चोत्तीसं २४ । सव्वाओ मिलिआओ बासीती पावपगईओ ८२॥३॥" तदेवं यशीतिभेदमपि पुण्यानुबन्धिपापानुबन्धिभेदाद् द्विविधमपि वा अनन्तसत्त्वाश्रितत्वादनन्तमपि वाऽशुभसामान्यादेकमिति । मनु कर्मसत्त्वेऽपि पुण्यमेवैकं कर्म न तत्प्रतिपक्षभूतं पापं कर्मास्ति, शुभाशुभफलानां पुण्यादेव सिद्धेरिति, तथाहि-यत्परमप्रकृष्टं शुभफलमेतत् पुण्योत्कर्षस्य कार्य, यत्पुनस्तस्मादवकृष्टमवकृष्टतरमवकृष्टतमं च तत्पु
पापोत्कऽधमसा तरतमयोगाद् अपकर्षतः शुभता । तस्यैव क्षये मोक्षः अपभ्यभकोपमानात् ॥५॥
"पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या
~45~