________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२९२]
दीप
एगा जतित्तावि पराजिणित्तावि एगा नो जतित्ता नो पराजिणित्ता २। एवामेव चत्तारि पुरिसजाता पं० सं०-जतिचा नाममेगे नो पराजिणित्ता ४,३ । चत्तारि सेणाओ पं००-जतित्ता णामं एगा जयई आइत्ता णाममेगा पराजिणति पराजिणित्ता णाममेगा जयति पराजिणिता नाममेगा पराजिणति ४ । एवामेव चत्तारि पुरिसजाता पं० तं०-जइत्ता नाममेगे जयति ४, ५ । (सू० २९२) सुगमा च, नवरं कश्चित्साधुर्गच्छवासी सम्प्रकटमेव-अगीतार्थप्रत्यक्षमेव प्रतिसेवते मूलगुणानुत्तरगुणान् वा दर्पतः| कल्पेन वेति सम्प्रकटप्रतिसेवीत्येकः, एवमन्यः प्रच्छन्नं प्रतिसेवत इति प्रच्छन्नप्रतिसेवी, अन्यस्तु प्रत्युसन-लब्धेन वस्त्रशिष्यादिना प्रत्युत्पन्नो वा-जातः सन् शिष्याचार्यादिरूपेण नन्दति यः स प्रत्युत्पन्ननन्दी, अथवा नन्दनं नन्दिःआनन्दः, प्रत्युत्पन्नेन नन्दिर्यस्य स प्रत्युत्पन्ननन्दिः, तथा माघूर्णकशिष्यादीनामात्मनो वा निःसरणेन-गच्छादेनिर्गमेन नन्दति यो नन्दिा यस्य स तथा, पाठान्तरे तु प्रत्युत्पन्न-यथालब्धं सेवते-भजते नानुचितं विवेचयतीति प्रत्युत्पन्नसेवीति । 'जइत्त'त्ति जेत्री जयति रिपुबलमेका न पराजेत्री-न पराजयते-रिपुबलान भज्यते द्वितीया तु पराजेत्री-परेभ्यो भङ्गभाक्, अत एव नो जेत्रीति, तृतीया कारणवशादुभयस्वभावेति, चतुर्थी त्वविजिगीषुत्वादनुभयरूपेति, पुरुषः -साधुः स जेता परीषहाणां न तेभ्यः पराजेता-उद्विजते इत्यर्थो महावीरवदित्येको, द्वितीयः कण्डरीकवत्, तृतीयस्तु कदाचिजेता कदाचित्कर्मवशात् पराजेता शैलकराजर्षिवत्, चतुर्धस्त्वनुत्पन्नपरीषहः । जित्वा एकदा रिपुबलं पुनरपि जयतीत्येका अन्या जित्वा पराजयते-भज्यते अन्या पराजित्य-परिभज्य पुनर्जयति चतुर्थी तु पराजित्य-परिभज्यैकदा
अनुक्रम [३११]
Lama
~445~