SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [२९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- नसूत्रवृत्तिः प्रत स्थाना. | उद्देश:२ तमस्कायः सू०२९१ सूत्रांक ॥२१७॥ [२९१] च ब्रह्मलोकस्य रिष्ठं विमानप्रस्तदं सम्प्राप्तः, तस्य नामान्येव नामधेयानि, 'तम' इति तमोरूपत्वादितिरुपप्रदर्शने वा विकल्पे तमोमात्ररूपताभिधायकान्याद्यानि चत्वारि नामधेयानि, तथाऽपराणि चत्वार्येवात्यन्तिकतमोरूपताभिधायकानीति, लोके अयमेवान्धकारो नान्योऽस्तीदृश इति लोकान्धकारः, देवानामप्यन्धकारोऽसौ, तच्छरीरप्रभाया अपि तत्राप्रभवनादिति देवान्धकारः, अत एव ते बलवतो भयेन तत्र नश्यन्तीति श्रुतिरिति, तथाऽन्यानि चत्वारि कार्या- श्रयाणि वातस्य परिहननात् परिघः-अर्गला, परिघ इव परिघः, वातस्य परिघो वातपरिघः, तथा वातं परिघवत् क्षोभयति हतमार्ग करोतीति-वातपरिपक्षोभः, वात एव वा परिषस्तं क्षोभयति यः स तथा, पाठान्तरेण वातपरिक्षोभ इति, कचिद्देवपरिघो देवपरिक्षोभ इति चाद्यपदद्वयस्थाने पठ्यते, देवानामरण्यमिव बलवद्भयेन नाशनस्थानत्वाद् यः स देवारण्यमिति, देवानां ब्यूहः सागरादिसाङ्कामिकव्यूह इव यो दुरधिगम्यत्वात् स देवव्यूह इति, तमस्कायस्वरूपप्रतिपादनायैव 'तमुकाये 'मित्यादि सूत्रं गतार्थम्, किन्तु सौधर्मादीनावृणोत्यसी कुकुटपञ्जरसंस्थानसंस्थितस्य तस्य प्रतिपादनाद्, उक्तं च-"तमुकाए णं भंते ! सिटिए पन्नत्ते?, गोयमा! अहे मल्लगमूलसंठिए उप्पिं कुकुडपंजरसंठिए पन्नत्ते" ति ॥ अनन्तरं तमस्कायो बचनपर्यायैरुक्तोऽधुना अर्थपर्यायैः पुरुषं निरूपयता पश्चसूत्री गदिता चत्तारि पुरिसजाता पं००-संपागडपडिसेवी णाममेगे पच्छन्नपडिसेवी णाममेगे पडुप्पन्ननंदी नाममेगे णिस्सरणगंदी णाममेगे १ । चत्तारि सेणाओ पं० २० जतित्ता णाममेगे णो पराजिणित्ता पराजिणित्ता णाममेगे णो जतित्ता १ तमस्कायो भदन्त ! किसस्थितः प्रजातो, गौतम ! अधो माकमूलसस्थितः उपरि कुकुटपंजरसस्थितः ॥ दीप अनुक्रम ॥२१७॥ ~444~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy