SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२७७] दीप अनुक्रम [२९१] [भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [१], मूलं [२७७] स्थान [ ४ ], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः कूटागाराणि तत्र गुप्तं प्राकारादिवृतं भूमिगृहादि वा पुनर्गुष्ठं स्थगितद्वारतया पूर्वकालापरकालापेक्षया वेति, एवमन्येऽपि त्रयो भङ्गा बोद्धव्याः, पुरुषस्तु गुप्तो नेपथ्यादिनाऽन्तर्हितत्वेन पुनर्गुप्तो गुप्तेन्द्रियत्वेन, अथवा गुप्तः पूर्वं पुनर्गुसोऽधुनापीति, विपर्यय कह्यः, तथा कूटस्येव आकारो यस्याः शालाया - गृहविशेषस्य सा तथा, अयं च स्त्रीलिङ्गदृष्टान्तः, | स्त्रीलक्षणदार्शन्तिकार्थसाधर्म्यवशात्, तत्र गुप्ता-परिवारावृता गृहान्तर्गता वस्त्राच्छादिताङ्गा गूढस्वभावा वा गुप्तेन्द्रि यास्तु निगृहीतानौचित्यप्रवृत्तेन्द्रियाः, एवं शेषभङ्गा ऊह्याः । अनन्तरं गुप्तेन्द्रियत्वमुक्तमिन्द्रियाणि चावगाहनाश्रयाणीत्यवगाहनानिरूपणसूत्रं, अवगाहन्ते - आसते यस्यां आश्रयन्ति वा यां जीवाः साऽवगाहना - शरीरं द्रव्यतोऽवगाहना द्रव्यावगाहना, एवं सर्वत्र तत्र द्रव्यतोऽनन्तद्रव्या क्षेत्रतोऽसवेयप्रदेशावगाढा, कालतोऽसत्येय समयस्थितिका, भावतो वर्णाद्यनन्तगुणेति, अथवाऽवगाहना विवक्षितद्रव्यस्याधारभूता आकाशप्रदेशाः, तत्र द्रव्याणामवगाहना द्रव्यावगाहना, | क्षेत्रमेवावगाहना क्षेत्रावगाहना, कालस्यावगाहना समयक्षेत्रलक्षणा कालावगाहना, भाववतां द्रव्याणामवगाहना भावावगाहना, भावप्राधान्यादिति, आश्रयणमात्रं वा अवगाहना, तत्र द्रव्यस्य पर्यायैरवगाहना-आश्रयणं द्रव्यावगाहना, एवं क्षेत्रस्य कालस्य, भावानां द्रव्येणेति, अभ्यथा वोपयुज्य व्याख्येयमिति । अवगाहनायाश्च प्ररूपणा प्रज्ञप्तिष्विति तच्चतुःस्थानकसूत्रम्, तत्र प्रज्ञाप्यन्ते प्रकर्षेण बोध्यन्ते अर्था यासु ताः प्रज्ञप्तयः, अङ्गानि आचारादीनि तेभ्यो वाह्याः अङ्गवाद्याः, यथार्थाभिधानाश्चैताः कालिक श्रुतरूपाः, तत्र सूरप्रज्ञप्तिजम्बूद्वीपप्रज्ञप्ती पञ्चमषष्ठाङ्गयोरुपाङ्गभूते, इतरे तु प्रकीर्णकरूपे इति, व्याख्याप्रज्ञप्तिरस्ति पञ्चमी केवलं साऽङ्गप्रविष्टेत्येताश्चतस्र उक्ता इति ॥ चतुःस्थानकस्य प्रथमोद्देशकः समाप्त इति । Education Intemational अथ चतुर्थ स्थानस्य प्रथमो उद्देशकः परिसमाप्तः | For Personal & Private Use Only ~ 421~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy