________________
आगम
(०३)
प्रत
सूत्रांक [२७६ ]
दीप
अनुक्रम [२९०]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [ ४ ], उद्देशक [१], मूलं [२७६ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
तोगाहणा कालोगाहणा भावोगाहणा (सू० २७६) चत्तारि पत्तीओ अंगबाहिरियातो पं० तं० चंदपन्नची सूरपन्नत्ती जंबुवपन्नत्ती दीवसागरपन्नत्ती ( सू० २७७ ) || चउद्वाणस्स पढमो उद्देसओ ॥ १ ॥
'मरस्से'त्यादिकमग्रमहिषीसूत्रप्रपञ्चमाह, कण्ठ्यश्चायम्, नवरं 'महारन्नो'त्ति लोकपालस्याप्रभूताः - प्रधाना महिष्यो -राजभार्या अग्रमहिष्य इति, वइरोयणत्ति-विविधैः प्रकारै रोच्यन्ते-दीप्यन्त इति विरोचनास्त एवं वैरोचना:- उत्त रदिग्वासिनोऽसुराः तेषामिन्द्रः, धरणसूत्रे 'एव' मिति कालवालस्येव कोलपालशैलपालशङ्खपालानामेतन्नामिका एव चतचतस्रो भार्याः, एतदेवाह - 'जाव संखवालस्स'ति, भूतानन्दसूत्रे 'एव' मिति यथा कालवालस्य तथान्येषामपि, नवरं तृतीयस्थाने चतुर्थी वाच्यः, धरणस्य दक्षिणनागकुमारनिकायेन्द्रस्य लोकपालानामग्रमहिष्यो यथा यन्नामिकास्तथा तन्नामिका एव सर्वेषां दाक्षिणात्यानां शेषाणामष्टानां वेणुदेव हरिकान्तअग्निशिखपूर्णजलकान्त अमितगतिवेलम्बधो|पाख्यानामिन्द्राणां ये लोकपालाः सूत्रे दर्शितास्तेषां सर्वेषामिति, यथा च भूतानन्दस्योदीच्य नागराजस्य तथा शेषाणामष्टानामौदीच्येन्द्राणां वेणुदा लिहरिस्सहाग्निमानवविशिष्टजलप्रभामितवाहनप्रभञ्जनमहाघोषाख्यानां ये लोकपालास्तेपामपीति, एतदेवाह - 'जहा धरणस्से' त्यादि । उक्तं सचेतनानामन्तरमथान्तराधिकारादेवा चेतनविशेषाणां विकृतीनां गोरसस्नेह मत्त्वलक्षणमन्तरं सूत्रत्रयेणाह - 'चत्तारी' त्यादि, गवां रसो गोरसः, व्युत्पत्तिरेवेयं गोरसशब्दस्य प्रवृत्तिस्तु महिष्यादीनामपि दुग्धादिरूपे रसे, विकृतयः शरीरमनसोः प्रायो विकारहेतुत्वादिति शेषं प्रकटम्, नवरं सर्पिः घृतम्, नवनीतं-काक्षणं, स्नेहरूपा विकृतयः स्नेहविकृतयो वसा-अस्थिमध्यरसः, महाविकृतयो - महारसत्वेन महाविकारकारित्वात्,
Education Intemational
For Personal & Pre Only
~419~
www.january.or