________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२६८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [२६८]
हानि ज्ञानादीनि यस्य सन्ति स केवलीति, सिद्धत्वस्य कर्मक्षपणस्य च एकसमये सम्भवात् प्रथमसमयसिद्धस्येत्यादि व्यपदिश्यते। असिद्धानां तु हास्यादयो विकारा भवन्तीति हास्य तावच्चतुःस्थानकावतारित्वादाह
चरहिं ठाणेहिं हासुप्पत्ती सिता ०-पासित्ता भासेत्ता सुणेत्ता संभरेत्ता (सू. २६९) पबिहे अंतरे ५० तं०
-कढतरे पम्हतरे लोहंतरे पत्थरंतरे, एवामेव इस्थिए वा पुरिसस्स वा चउबिहे अंतरे पं०२०-कहतरसमाणे पम्हतरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे (सू०२७०) चत्तारि भयगा पं० सं०-दिवसभयते जत्ताभयते उचत्तभयते कच्चालभयते (सू० २७१) चत्तारि पुरिसजाता पं० सं०-संपागढपडिसेवी णामेगे जो पच्छन्नपडिसेयी पच्छनपडिसेवी णामेगे णो संपागडपडिसेवी एगे संपागडपडिसेवीवि पच्छन्नपटिसेवीवि एगे नो संपागापटिसेवी णो
पच्छन्नपडिसेवी (सू० २७२) 'चउही'त्यादि, हसनं हास:-हासमोहोदयजनितो विकारस्तस्योपत्तिः-उत्पादः हासोत्पत्तिः 'पासित्त'त्ति दृष्ट्वा विदूषकादिचेष्टां चक्षुपा, तथा भाषित्वा वाचा किचिचसूरिवचनं तथा श्रुत्वा श्रोत्रेण परोकं तथाविधवाक्यं तथा तथाविधमेव चेष्टावाक्यादिकं स्मृत्वा हसतीति शेषः, एवं दर्शनादीनि हासकरणानि भवन्तीति। असिद्धानामेव धर्मान्तरनिरूपणाय दृष्टान्तदाान्तिकार्थवत्सूत्रद्वयम्, 'चउब्धिहें' इत्यादि, काष्ठस्य च काष्ठस्य चेति काष्ठयोरन्तरं-विशेषो रूपनिर्माणादिभिरिति काठान्तरमेवं पक्ष्म-कर्पासरूतादि पक्ष्मणोरन्तरं विशिष्टसौकुमार्यादिभिः लोहान्तरं अत्यन्तच्छेदकत्वादिभिः प्रस्तरान्तरं-पापाणान्तरं चिन्तितार्थप्रापणादिभिरिति, 'एवमेव' काष्ठाद्यन्तरवत्, स्त्रिया वा ख्यन्तरापेक्षया पुरुषस्य
दीप अनुक्रम [२८२]
wwwjaralaya
~415~