________________
आगम
(०३)
प्रत
सूत्रांक
[७-१६]
दीप
अनुक्रम [७-१६]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [१], उद्देशक [-],
मूलं [१६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र - [ ०३ ], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Educato
संयोगोऽभिप्रेतः, स खल्वादिमानादिरहितो वा स्यादिति कल्पनाद्वयं तत्र यद्यादिमानिति पक्षस्तदा किं पूर्वमात्मा पश्चात् कर्म्म अथ पूर्व कर्म्म पश्चादात्मा उत युगपत्कर्मात्मानौ संप्रसूयेतामिति त्रयो विकल्पाः, तत्र न तावत् पूर्वमात्मसंभूतिः सम्भाव्यते, निर्हेतुकत्वात्, खरविषाणवत्, अकारणप्रसूतस्य च अकारणत एवोपरमः स्याद्, अथानादिरेव आत्मा तथाप्यकारणत्वान्नास्य कर्मणा योग उपपद्यते नेभोवत्, अथाकारणोऽपि कर्मणा योगः स्यात् तर्हि स मुक्तस्यापि स्यादिति, अथासावात्मा नित्यमुक्त एव तर्हि किं मोक्षजिज्ञासया ?, बन्धाभावे च मुक्तव्यपदेशाभाव एव, आकाशवदिति, नापि कर्मणः प्राक् प्रसूतिरिति द्वितीयो विकल्पः सङ्गच्छते, कर्त्तुरभावात्, न चाक्रियमाणस्य कर्मव्यपदेशोऽभिमतः, अकारणप्रसूतेश्चाकारणत एवोपरमः स्यादिति, युगपदुत्पत्तिलक्षणस्तृतीयपक्षोऽपि न क्षमः, अकारणत्वादेव, न च युगपदुत्पत्तौ सत्यामयं कर्त्ता कम्मेदमिति व्यपदेशो युक्तरूपः सव्येतरगोविषाणवदिति, अधादिरहितो जीवकर्मयोग इति पक्षः, ततश्चानादित्वादेव नात्मकर्मवियोगः स्यात्, आत्माऽऽकाशसंयोगवदिति, अत्रोच्यते, आदिमत्संयोगपक्षदोषा अनभ्युपगमादेव निरस्ताः यच्चादिरहितजीवकर्मयोगेऽभिधीयते 'अनादित्वान्नात्मकर्म्मवियोग' इति, तदयुक्तम्, अनादित्वेऽपि संयोगस्य वियोगोपलब्धेः काञ्चनोपलयोरिवेति यदाह - "जैह वह कंचणोवलसंजोगोऽणाइतइगओऽवि । वोच्छिज्जइ सोवायं तह जोगो जीवकम्माणं ॥ १ ॥”ति, तथा अनादेरपि सन्तानस्य विनाशो
१ नभोऽङ्गिरोमनुषां वेति संज्ञाविषयं छन्दोविषयं वा भाग्यप्रदीपेऽत एवोकं उपसंख्यानान्येतानि छन्दोविषयाणीत्याहुरिति २ यथा वे कावनोपयो गोऽनादिसंततिगतोऽपि व्युच्छियते सोपावं तथा योगो जीवकर्मणोः ॥ १ ॥
For Personal & Pra Use Only
"बन्ध, मोक्ष, पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या
~41~
Mary org