SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२४९ ] दीप अनुक्रम [२६३] [भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [ ४ ], उद्देशक [१], मूलं [२४९] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः तिष्ठित', उक्तं च-- "सापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमच निरुपक्रमं च दृष्टं यथाऽऽयुकम् ॥ १ ॥” इति, अयं च चतुर्थभेदो जीवप्रतिष्ठितोऽपि आत्मादिविषयेऽनुत्पन्नत्वादप्रतिष्ठित उक्तो, न तु सर्वथा अप्रतिष्ठितः, चतुःप्रतिष्ठितत्वस्याभावप्रसङ्गादिति । एकेन्द्रिय विकलेन्द्रियाणां कोपस्यात्मादिप्रतिष्ठितत्वं पूर्वभवे तल|रिणामपरिणतमरणेनोत्पन्नानामिति, एवं मानमायालो भैर्दण्डक त्रयमपरमध्येतव्यमिति, क्षेत्रं नारकादीनां ४ स्वं स्वमुखत्तिस्थानं प्रतीत्य-आश्रित्य एवं वस्तु सचेतनादि ३ वास्तु वा गृहम् शरीरं दुःसंस्थितं विरूपं वा उपधिर्यद्यस्योपकरणं, एकेन्द्रियादीनां भवान्तरापेक्षयेति, एवं मानादिभिरपि दण्डकत्रयं, अनन्तं भवमनुबध्नाति - अविच्छिन्नं करोतीत्येवंशीलोऽनम्तानुबन्धी अनन्तो वाऽनुबन्धोऽस्येत्यनन्तानुबन्धी- सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवविबन्धी, चारित्रमोहनीयत्वात् तस्य, न चोपशमादिभिरेव चारित्री अल्पत्वाद्यथाऽमनस्को न संज्ञी किन्तु महता मूलगुणादिरुपेण चारित्रेण चारित्री, मनःसंज्ञया संज्ञिवद्, अत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयमिति, ननु 'पढमिल्लयाण उदए नियमेत्यादि बिरुध्यते, चारित्रावारकस्य सम्यक्त्वावारकत्वानुपपत्तेः, अत एव सप्तविधं दर्शनमोहनीयमेकविंशतिविधं चारित्रमोहनीयमिति मतं सङ्गतमाभातीति, अत्रोच्यते, 'पढमेल्लयाणे त्यादि यदुक्तं तदनन्तानुबन्धिनां न सम्यक्त्वावारकतया किन्तु सम्यक्त्वसहभाव्युपशमाद्यावारकतया, अन्यथाऽनन्तानुबन्धिभिरेव सम्यक्त्व | स्यावृत्तस्वात् किमपरेण मिथ्यात्वेन प्रयोजनं ?, आवृतस्याप्यावरणेऽनवस्थाप्रसङ्गात्, तस्माद्यथा “केवलियनाणलंभो १] कषायाणां क्षयादन्यत्र न केवलज्ञानभः ॥ Education International 'कषाय' अर्थ एवं वर्णनं For Personal & Pre Only ~397~ www.january.org
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy