________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२४३]
दीप अनुक्रम [२५७]
56-595%2525-0520
णस्स णं भिक्खागस्स तयक्खातसमाणे तवे पण्णत्ते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कहक्खायसमाणे तवे पण्णत्ते,
कहक्खायसमाणस्स णे मिक्खागस्स छल्लिक्खायसमाणे तवे पण्णत्ते (सू० २४३) त्वचं-बाह्यवल्कं खादतीति वक्खादः, एवं शेषा अपि, नवरं 'छल्लि'त्ति अभ्यन्तरं वल्क काष्ठ-प्रतीतं सारः-काष्ठ-14 मध्यमिति दृष्टान्तः, 'एवमेवे त्याद्युपनयसूत्रं, भिक्षणशीला भिक्षणधर्माणो भिक्षणे साधवो वा भिक्षाकाः, त्वक्खादेन धुणेन समानोऽत्यन्तं सन्तोपितया आयामाम्लादिप्रान्ताहारभक्षकत्वात् त्वक्खादसमानः, एवं छालीखादसमानोऽलेपाहारकत्वात् काष्ठखादसमानो निर्विकृतिकाहारतया सारखादसमानः सर्वकामगुणाहारत्वादिति, एतेषां चतुर्णामपि भिक्षाकाणां तपोविशेषाभिधानसूत्र 'तयक्खाये'त्यादि, सुगम, केवलमयं भावार्थ:-स्वकल्पासाराहाराभ्यवह निरभिष्वङ्गत्वात् कर्मभेदमङ्गीकृत्य वज्रसारं तपो भवतीत्यतोऽपदिश्यते–'सारक्खायसमाणे तत्ति, सारखादघुणस्य सारखादत्वादेव समर्थत्वात् वज्रतुण्डत्वाच्चोते, सारखादसमानस्योक्तलक्षणस्य साभिष्वङ्गतया त्वक्खादसमानं कर्मसारभेदं प्रत्यसमर्थं तपः स्यात्, त्वक्खादकघुणस्य हि तत्त्वादेव सारभेदनं प्रत्यसमर्थत्वादिति, तथा छल्लीखादघुणसमानस्य भिक्षाकस्य स्वक्खादघुणसमानापेक्षया किचिद्विशिष्टभोजित्वेन किञ्चित्साभिष्वङ्गत्वात् सारखादकाष्ठखादघुणसमानापेक्षया त्वसारभोजित्वेन निरभिष्वजित्वाच्च कर्मभेदं प्रति काष्ठखादघुणसमानं तपः प्रज्ञप्तं, नातितीव्र, सारखादघुणवत्, नाप्यतिमन्दादि, त्वक्छल्लीखादधुणवदिति भावः, तथा काष्ठखादघुणसमानस्य साधोः सारखादधुणसमानापेक्षया असारभो|जित्वेन निरभिष्वङ्गत्वात् त्वक्छलीखादघुणसमानापेक्षया सारतरभोजित्वेन साभिष्वगत्वाच छल्लीखादघुणसमानं तपः
~381~