________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थानाअसूत्रवृत्तिः
प्रत सूत्रांक [१८९]
३ स्थानकाध्ययने उद्देशा३ सु०१९०
॥१५६॥
दीप अनुक्रम [२०२]
कामदः सर्वकामिनाम् । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ २॥" तथा "शल्यं कामा विष कामाः, कामा आशीविषोपमाः। कामानभिलषन्तोऽपि, निष्कामा यान्ति दुर्गतिम् ॥ ३॥" इत्यादीनि ॥ अनन्तरमादिविनिश्चय उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गतो भगवत्प्रश्नद्वारेण निरूपयन्नाह
तहारूवं ण भंते ! समणं वा माहणं वा पञ्जवासमाणस्स किंफला पञ्जुवासणवा?, सवणफला, से णं भंते ! सवणे किंफले?, णाणफले, से णं भंते ! णाणे किंफले?, विण्णाणफले, एवमेतेणं अभिलावेणं इमा गाधा अणुगंतव्वा-सवणे णाणे य विनाणे पञ्चक्खाणे य संजमे । अणण्हते तवे चेव बोदाणे अकिरिव निव्वाणे ॥१॥ जाव से णं भंते! अकिरिया किंफला ?, निव्याणफला, से णं भंते ! निवाणे किंफले १, सिद्धिगइगमणपजवसाणफले पन्नत्ते, समणाउसो! ॥ (सू० १९०)
तृतीयस्य तृतीय उद्देशकः॥ 'तहासवेत्यादि पाठसिद्धं, केवलं पर्युपासना-सेवा, श्रवणं फलं यस्याः सा तथा, साधवो हि धर्मकथादिकं स्वाध्यायं कुर्वन्तीति श्रवणं तत्सेवायां भवतीति, ज्ञान-श्रुतज्ञान, विज्ञानम्-अर्थादीनां हेयोपादेयत्वविनिश्चयः, 'एवं'मिति पूर्वोक्तेनाभिलापेन 'से णं भंते! विनाणे किंफले?, पञ्चक्खाणफले' इत्यादिना, इयं गाथा अनुगन्तव्या-अनुसरणीया, एतद्गाथोक्तानि पदान्यध्येतव्यानीत्यर्थः, 'सवणे इत्यादि, भावितार्था, नवरम् प्रत्याख्यान-निवृत्तिद्वारेण प्रतिज्ञाकरणं संयमा-पाणातिपाताधकरणम् , उक्तं च-“पञ्चाश्रवाद्विरमणं पथेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः
RDC
CSसल
।
~322~