________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१८८]
दीप
पूर्वोक्तोऽतिदेशो व्याख्यातः, एवं चात्राक्षरघटना-यथैवोपक्रमे आत्मपरतदुभयैस्त्रय आलापका उक्ताः एवमेकैकस्मिन् |वैयावृत्त्यादिसूत्रे ते त्रयस्त्रयो वाच्या इति । अथ श्रुतधर्मभेदा उच्यन्ते
तिविहा कहा, पं० सं०-अस्थकहा धम्मकहा कामकहा ७, तिविहे विणिच्छते पं० त०-अत्यविणिच्छते धम्मविणि
छते कामविणिच्छते ८, (सू० १८९) अर्थस्य-लक्ष्म्याः कथा-उपायप्रतिपादनपरो वाक्यप्रबन्धोऽर्थकथा, उक्तं च-“सामादिधातुवादादिकृष्यादिप्रतिपादिका | अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्तिता ॥१॥" तथा-"अर्थाख्यः पुरुषार्थोऽयं, प्रधानः प्रतिभासते। तृणादपि लघु लोके, घिगर्थरहितं नरम् ॥ १॥” इति, इयं च कामन्दकादिशास्त्ररूपा, एवं धर्मोपायकथा धर्मकथा, उक्तं च-"दयादानक्षमायेषु, धर्माङ्गेषु प्रतिष्ठिता । धर्मोपादेयतागर्भा, बुधैर्घर्मकथोच्यते ॥१॥" तथा-"धर्माख्यः पुरुषार्थोऽयं, प्रधान इति गीयते । पापसक्तं पशोस्तुल्यं, धिग्धर्मरहितं नरम् ॥ २॥” इति, इयं चोत्तराध्ययनादिरूपाऽवसेयेति, एवं कामकथाऽपि, यदाह--"कामोपादानगर्भा च, वयोदाक्षिण्यसूचिका । अनुरागेगिताद्युत्था, कथा कामस्य वर्णिता ॥१॥" तथा "स्मितं न लक्षेण वचो न कोटिभिर्न कोटिलः सविलासमीक्षितम् । अवाप्यतेऽन्यहृदयोपगृहनं, न कोटिकोव्याऽपि तदस्ति कामिनाम् ॥ १॥" इति, इयमपि वात्स्यायनादिरूपाऽबसेयेति, प्रकीर्णा वा तत्तदर्था वचनपद्धतिः कथा चरित्रवर्णनरूपा वा, अर्थादिविनिश्चयाः-अर्थादिस्वरूपपरिज्ञानानि, तानि च-"अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं, घिगर्थे दुःखकारणम् ॥१॥" तथा "धनदो धनार्थिनां धर्मः,
अनुक्रम २०१]
~3214