SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८८] C दीप अनुक्रम [२०१] पक्रमस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिधा-सचित्ताचित्तमिश्रद्रव्यभेदात् , तत्र सचित्तद्रव्योपक्रमो द्विपदपतुष्पदापदभेदभिन्नः, पुनरेकैको द्विविधः-परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि-द्रव्यस्य गुणविशेषकरणं तस्मिन् सति, तद्यथा-घृतायुपयोगेन पुरुषस्य वर्णादिकरणम्, एवं शुकसारिकादीनां शिक्षागुणविशेषकरणं, तथा चतुष्पदानां हस्त्यादीनामपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनमिति, तथा वस्तुविनाशे च पुरुषादीनां खङ्गादिभिर्विनाश एवोपक्रम इति, एवमचित्तद्रव्योपक्रमः पद्मरागादिमणेः क्षारमृत्पुटपाकादिना वैमल्यापादनं विनाशश्चेति, मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति, तथा क्षेत्रस्य-शालिक्षेत्रादेः परिकर्म विनाशो वा क्षेत्रोपक्रमः, तथा कालस्य-चन्द्रोपरागादिलक्षणस्योपक्रम:--उपायेन परिज्ञानं कालोपक्रमः, तथा भावस्य प्रशस्ताप्रशस्तरूपस्योपायतः परिज्ञानमेव भावोपक्रमः, स चाप्रशस्तो डोड्डिनीगणिकाऽमात्यदृष्टान्तावसेयः, प्रशस्तश्च श्रुतादिनिमित्तमाचार्यादिभावोदापक्रम इति, एवं च धार्मिकस्य-संयतस्य यश्चारित्राद्यर्थ द्रव्यक्षेत्रकालभावानामुपकम उक्तस्वरूपः स धार्मिक एवोप क्रमः, तथा अधार्मिकस्य-असंयतस्यासंयमार्थ यः सोऽधार्मिक एव, तथा धाम्मिकाधार्मिकस्य-देशविरतस्य यः स धार्मिकाधामिक इति, अथ स्वाम्यन्तरभेदेनोपक्रममेव त्रिधाऽऽह-तत्रात्मनोऽनुकूलोपसर्गादी शीलरक्षणनिमित्तमुपक्रमो-बैहानसादिना विनाशः परिकर्म वा आत्मार्थ वा उपक्रमोऽन्यस्य वस्तुनः आत्मोपक्रम इति, तथा परस्य परार्थ वोपक्रमः परोपक्रम इति, तदुभयस्य-आत्मपरलक्षणस्य तदुभयाथै वोपक्रमस्तदुभयोपक्रम इति, 'एवं'मिति अपकमसूत्रवत् | आत्मपरोभयभेदेन वैयावृत्त्यादयो याच्याः, व्यावृत्तस्य भावः कर्म वा वैयावृत्स्य-भक्कादिभिरुपष्टम्भः, तत्रात्मवैया + C +oe ABERucatunintamala ~319~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy