SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१७७] दीप अनुक्रम [१९०] [भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१७७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०३], अंग सूत्र - [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अधुनोपपन्नो देवः, त्याह-देवलोकेध्विति, इह च बहुवचनमेकस्यैकदा अनेकेषूत्पादासम्भवादेकार्थे दृदयं वचनव्यत्ययाद्देवलोकानेकत्वोपदर्शनार्थं वा अथवा देवलोकेषु मध्ये क्वचिद्देवलोक इति, 'इच्छेद्' अभिलषेत्, पूर्वसङ्गतिक-, दर्शनाद्यर्थं मानुषाणामयं मानुषस्तं 'हवं' शीघ्रं 'संचापइति शक्नोति, दिवि देवलोके भवा दिव्यास्तेषु कामौ च-शब्दरूपलक्षणौ भोगाश्च - गन्धरसस्पर्शाः कामभोगास्तेषु, अथवा काम्यन्त इति कामाः - मनोज्ञास्ते च ते भुज्यन्त इति भोगाः शब्दादयस्ते च कामभोगास्तेषु मूच्छित इव मूच्छितो- मूढः, तत्स्वरूपस्यानित्यत्वादेर्विबोधाक्षमत्वात्, गृद्धः - तदाकाङ्क्षावान् अतृप्त इत्यर्थः, प्रथित इव प्रथितस्तद्विषयस्ते हरज्जूभिः सन्दर्भित इत्यर्थः, अध्युपपन्नः- आधिक्येनासक्तोऽत्यन्ततन्मना इत्यर्थः, 'नो आद्रियते' न तेष्वादरवान् भवति 'नो परिजानाति' एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते, नो अर्थ बध्नाति एतैरिदं प्रयोजनमिति न निश्चयं करोति, तथा तेषु नो निदानं प्रकरोति एते मे भूयासुरित्येवमिति, तथा तेष्वेव नो स्थितिप्रकल्पम् - अवस्थानविकल्पनमेतेष्वहं तिष्ठेयमिति एते वा मम तिष्ठन्तुस्थिरीभवत्वित्येवंरूपं स्थित्या वा मर्यादया विशिष्टः प्रकल्पः- आचार आसेवेत्यर्थस्तं 'प्रकरोति' कर्तुमारभते, प्रशव्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरित्येकं कारणं १, तथा यतोऽसावधुनोपपन्नो देवो दिव्येषु कामभोगेषु मूर्च्छितादिविशेषणो भवति ततस्तस्य मानुष्यकं - मनुष्यविषयं प्रेम-स्नेहो येन मनुष्यलोके आगम्यते तद् व्यवच्छिन्नं दिवि भवं दिव्यं स्वर्गगतवस्तुविषयं सङ्क्रान्तं तत्र देवे प्रविष्टं भवतीति दिव्यप्रेमसङ्क्रान्तिरिति द्वितीयम् २, तथाऽसौ देवो यतो दिव्यकामभोगेषु मूर्च्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स नं'ति तस्य देवस्य 'एवं 'ति एवंप्रकारं For Personal & Private Use Only ~ 295~ www.n
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy