________________
आगम
(०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [२], मूलं [१६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१६७]
दीप अनुक्रम [१८०]
REENSEENEWS
माणप्रकारमाख्यान्ति सामान्यतो भाषन्ते विशेषतः क्रमेणैतदेव प्रज्ञापयन्ति प्ररूपयन्तीति पर्यायरूपपदद्वयेन उक्तमिति, अथवा आख्यान्ति ईषद् भाषन्ते व्यक्तवाचा प्रज्ञापयन्ति उपपत्तिभिबोधयन्ति प्ररूपयन्ति प्रभेदादिकथनत इति, किं तदि-14 त्याह-'क' केन प्रकारेण 'श्रमणानां निम्रन्थानां मते इति शेषः क्रियते इति क्रिया-कर्म सा क्रियते भवति दुःखायेति विवक्षयेति प्रश्नः, इह तु चत्वारो भङ्गाः, तद्यथा-कृता क्रियते-विहितं सत्कर्म दुःखाय भवतीत्यर्थः १, एवं कृतान क्रियते २| | अकृता कियते ३ अकृता न कियते ४ इति, एतेष्वनेन प्रश्नेन यो भङ्गः प्रष्टुमिष्टस्तं शेषभङ्गनिराकरणपूर्वकमभिधातुमाह'तस्थ'त्ति तेषु चतुएं भड़केषु मध्ये प्रथम द्वितीयं चतुर्थ च न पृच्छन्ति, एतत्रयस्यात्यन्तं रुचेरविषयतया तत्पश्नस्याप्यप्रवृत्तेरिति, तथाहि-'याऽसौ कृता क्रियते' यत्तत्कर्म कृतं सद्भवति नो तत्ते पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन निम्रन्थमतत्वेन चासमतत्वादिति, 'तत्र याऽसौ कृता नो क्रियते' इति तेधु-भङ्गकेषु मध्ये यत्तत्कर्म कृतं न भवति नो तत्पृच्छन्ति, अत्यन्तविरोधेनासम्भवात् , तथाहि-कृतं चेत् कर्म कथं न भवतीत्युच्यते?, न भवति चेत् कथं कृतं तदिति, कृतस्य कर्मणोऽभवनाभावात्, 'तत्र' तेषु 'याऽसावकृतां यत्तदकृतं कर्म 'नो क्रियते' न भवति नो तां पृच्छन्ति, अकृतस्यासतश्च कर्मणः स्वरविषाणकल्पत्वादिति, अमुमेव च भङ्गकत्रयनिषेधमाश्रित्यास्य सू-1 त्रस्य त्रिस्थानकावतार इति सम्भाव्यते, तृतीयभङ्गकस्तु तत्संमत इति तं पृच्छन्ति, अत एवाह-तत्र 'याऽसावकृता क्रियते' यत्तदकृत-पूर्वमविहितं कर्म भवति-दुःखाय सम्पद्यते तां पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन दुःखानुभूतेश्च प्रत्यक्षतया सत्त्वेनाकृतकर्मभवनपक्षस्य सम्मतत्वादिति, पृच्छतां चायमभिप्रायो-यदि निर्ग्रन्था अपि
~281~