SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२० -१२१] तत्र बाह्यपुद्गलानादायाभरणादीन् अपर्यादाय केशनखसमारचनादिना उभयतस्तूभयथेति, अथवाऽपर्यादायेति ककलाससपोदीनां रक्तत्वफणादिकरणलक्षणेति । एवं द्वितीयसूत्रमपि, नवरमभ्यन्तरपुद्गला भवधारणीयेनौदारिकेण वा शरीरेण ये क्षेत्रप्रदेशा अवगाढास्तेष्वेव ये वर्तन्ते तेऽवसेयाः, विभूषापक्षे तु निष्ठीवनादयोऽभ्यन्तरपुद्गला इति । तृतीयं | तु बाह्याभ्यन्तरपुद्गलयोगेन वाच्यमिति, तथाहि-उभयेषामुपादानाद् भवधारणीयनिष्पादनं तदनन्तरं तस्यैव केशादिरचनं च, अनादानाचिरविकुर्वितस्यैव मुखादिविकारकरणं, उभयतस्तु वाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषांचानादानतोऽनिष्टरूपभवधारणीयेतररचनमिति ॥ अनन्तरं विकुर्वणोक्ता, साच नारकाणामप्यस्तीति नारकान्निरूपयन्नाह'तिविहे त्यादि, कण्ठ्यम्, नवरं 'कतीत्यनेन सझ्यावाचिना व्यादयः सङ्ख्यावन्तोऽभिधीयन्ते, अयं चान्यत्र प्रश्नविशिष्टसङ्ख्यावाचकतया रूढोऽपीह सङ्ख्यामात्रे द्रष्टव्यः, तत्र नारकाः कति-कतिसङ्ख्याताः सङ्ख्याता एकैकसमये ये उत्पन्नाः सन्तः सञ्चिताः-कत्युत्पत्तिसाधादू बुग्या राशीकृतास्ते कतिसञ्चिताः, तथा न कतिज सहयाता इत्यकति-असङ्ख्याता अनन्ता वा, तत्र ये अकति-अकतिसङ्ख्याताः असङ्ख्याता एकैकसमये उत्पन्ना सन्तस्तथैव सञ्चितास्ते अकतिसथिताः, तथा यः परिमाणविशेषो न कति नाप्यकतीति शक्यते वक्तुं सोऽवक्तव्यकः स चैक इति तत्सश्चिता अवक्तव्यकसञ्चिताः, समये समये एकतयोत्सना इत्यर्थः, उत्पद्यन्ते हि नारका एकसमये एकादयोऽसखयेयान्ताः, उक्तं च-"ऐगो व दो व तिन्नि व संखमसंखा व एगसमएणं । उववजतेवइया उब्बईता वि एमेव ॥१॥" इति, एतद्देवपरिमाणमेतदेव नार १एको वा द्वी पानयो या समयाता भराया वैकरामयेन उत्पयन्ते एतापन्तः शान्तेयेयमेव (देवाः)॥१॥ दीप अनुक्रम [१२८-१२९] wwwwjanmalay 'विकुर्वणा' शब्दस्य अर्थ:, नारकाणाम् निरुपणं ~219~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy