________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [११९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
SEX
सूत्रांक
[११९]
दीप
समानं वर्तते, ततश्च क एषां विशेषः?, आह च-"अभिहाणं दबत्तं तदत्थसुन्नत्तणं च तुलाई । को भाववजियाण। नामाईणं पइविसेसो ॥१॥” इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते तथा कर्नुः सद्भूतेन्द्राभिप्रायो भवति तथा द्रष्टुस्तदाकारदर्शनादिन्द्रप्रत्ययस्तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्तन्ते फलं च प्राप्नुवन्ति केचिद्देवतानुग्रहात् न तथा नामद्रव्येन्द्रयोरिति, तस्मात् स्थापनायास्तावदित्वं भेद इति, आह च-"आगारोऽभिप्पाओ बुद्धी किरियाफलं च पाएणं । जह दीसइ ठवणिंदे न तहा नामे न दविंदे ॥१॥” इति, यथा च द्रव्येन्द्रो भावेन्द्रकारणतां प्रतिपद्यते तथोपयोगापेक्षायामपि तदुपयोगतामासादयत्यवाप्तवांश्च न तथा नामस्थापनेन्द्रावित्ययं विशेष इति, आह च-"भावस्स कारणं जह दवं भावो य तस्स पज्जाओ । उवओगपरिणतिमओ न तहा नाम न वा ठवणा ॥१॥" इति ॥ उक्ता नामस्थापनाद्रव्येन्द्राः, इदानीं भावेन्द्रं त्रिस्थानकावतारेणाह-'तओ इंदे'त्यादि कण्ठ्य, नवरं ज्ञानेन ज्ञानस्य ज्ञाने वा इन्द्रः-परमेश्वरो ज्ञानेन्द्रः-अतिशयवच्छ्रुताद्यन्यतरज्ञानवशविवेचितवस्तुविस्तरः केवली | वा, एवं दर्शनेन्द्र:-क्षायिकसम्यग्दर्शनी, चरित्रेन्द्रो-यथाऽऽख्यातचारित्रः, एतेषां च भावेन-सकलभावप्रधानक्षायिकलक्षणेन विवक्षितक्षायोपशमिकलक्षणेन वा भावतः-परमार्थतो वेन्द्रत्वात्-सकलसंसार्यप्राप्तपूर्वगुणलक्ष्मीलक्षणपरमैश्वर्य
१ अभिधानं द्रव्यत्वं तदर्धशून्यत्वं च तुल्यानि को भावर्जितानां नामादीनां प्रतिविशेषः ॥१॥ (येन भेदात्रयस्ते)। २ आकारोऽभिप्रायो बुद्धिः क्रियाफलं च यथा प्रायः स्थापनेन्ने रश्यते न तथा बामेन्टेन द्रव्येदे ॥१॥ ३"तपूर्वश्च प्र. ४ भाबस्य कारणं यथा द्रव्यं भावश्च तस्य पर्यायः उपयोगपरिणतिमसो काम तथा नाम न वा स्थापनेति ॥१॥
अनुक्रम [१२७]
wwwjagalan
इंद्र शब्दस्य व्याख्या एवं निक्षेपा:
~217~