________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[९३]
|धरपर्वताः शब्दापातिविकटापातिगन्धापातिमालवत्पर्यायाख्यवृत्तैवताच्याश्च तन्निवासिस्वातिप्रभासारुणपद्मनाभदेवानां | द्वयेन द्वयेन सहिताः क्रमेण द्वौ द्वावुक्ती, 'दो मालवंत'त्ति मालवन्तावुत्तरकुरुतः पूर्वदिग्वत्तिनौ गजदन्तको स्तः, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परी शीतोत्तरकुलवर्तिनी दक्षिणोत्तरायती चित्रकूटौ वक्षस्कारपर्वतो, ततो विजयेना-1 न्तरनद्या विजयेन चान्तरितावन्यौ तथैवान्यौ पुनस्तथैवान्याविति पुनः पूर्ववनमुखवेदिकाविजयाभ्यामर्वाक् शीतादक्षिणकूलवत्तींनि तथैव त्रिकूटादीनां चत्वारि द्वयानि, ततः सौमनसी देवकुरुपूर्वदिग्वर्त्तिनौ गजदन्तको, ततो गजदन्त| कावेव देवकुरुपत्यग्भागवर्तिनी विद्युत्मभौ, ततो भद्रशालबनतद्वेदिकाविजयेभ्यः परतः तथैवाङ्कावत्यादीनां चत्वारि द्वयानि शीतोदादक्षिणकूलवर्तीनि, पुनरन्यानि पश्चिमवनमुखवेदिकान्त्यविजयाभ्यां पूर्वतः क्रमेण तथैव चन्द्रपर्वतादीनां चत्वारि द्वयानि, ततो गन्धमादनावुत्तरकुरुपश्चिमभागवत्तिनौ गजदन्तकाविति, एते धातकीखण्डस्य पूवाढ़ें पश्चिमाढ़ें च भवन्तीति द्वी द्वायुकाविति, इपुकारी दक्षिणोत्तरयोर्दिशोधोंतकीखण्डविभागकारिणाविति, 'दो चुल्लहिमवंतकूडा इत्यादि, हिमवदादयः पड़ वर्षधरपर्वताः तेषु ये द्वे द्वे कूटे जम्बूद्वीपप्रकरणे अभिहिते ते पर्वतानां द्विगुणत्वाद् एकैकशो वे द्वे स्यातामिति, वर्षधराणां द्विगुणत्वात् पद्मादिहूदा अपि द्विगुणास्तद्देव्योऽप्येवमिति । चतुर्दशानां गङ्गादि-18 महानदीनां पूर्वपश्चिमार्द्धापेक्षया द्विगुणत्वात् तत्प्रपातइदा अपि द्वौ द्वौ स्युरित्याह-दो गंगापवायदहे'त्यादि, दो रोहियाओ' इत्यादौ नद्यधिकारे गङ्गादीनां सदपि द्वित्त्वं नोक, जम्बूद्वीपप्रकरणोक्तस्य-"महाहिमवंताओ वासहरपब्वयाओ महापउमद्दहाओ दो महानदीओ पवहंती"त्यादिसूत्रक्रमस्याश्रयणात् , तत्र हि रोहिदादय एवाष्टी श्रूयन्त इति,
दीप अनुक्रम
[९७]
~175~