________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [-], उद्देशक [-], मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
*
चायमेवेति, यत उत्तम्-"तिवरसपरियागस्स उ आयारपकप्पनाममज्झयणं । चउपरिसस्स य सम्म सूयगडं नाम अंगति ॥१॥ दसकप्पब्बवहारा संवच्छरपणगदिक्खियरसेव । ठाणं समवाओऽवि य अंगे ते अह वासस्स ॥२॥ ति" अन्यथा दानेऽस्याज्ञाभङ्गादयो दोषा इति । तथा श्रेयोभूततयाऽस्य विघ्नसम्भवे तदुपहतशक्तयः शिष्या नैवात्र प्रवर्तेरनिति तदुपशमाय मङ्गलमुपदर्शनीयम् , उक्तश्च-"बहेविग्घाई सेयाई तेण कयमङ्गलोवयारेहिं । घेत्तव्यो सो सुमहानिहिव्व जह वा महाविज्जा ॥१॥” इति, मङ्गलं च शास्त्रस्यादिमध्यावसानेषु क्रमेण शास्त्रार्थस्याविघ्नेन परिसमाप्तये तस्यैव स्थैर्याय तस्यैवाव्यवच्छेदाय च भवतीति, तदुक्तम्-"तं मंगलमाईए मज्झे पज्जन्तए य सत्थस्स । पढम सत्वत्थाविग्धपारगमणाय निद्दिडं ॥१॥ तस्सेव य थिज्जत्थं मज्झिमयं अंतिमंपि तस्सेव । अब्बोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ॥२॥"ति॥ तत्रादिमङ्गलं 'सुयं मे आउस ! तेणं भगवयेत्यादिसूत्रं, नन्द्यन्तर्भूतत्वात् श्रुतशब्दस्य, भगवद्बहुमानगर्भवाद्वा आयुष्मता भगवतेत्यस्य, नन्दीभगवद्बहुमानयोश्च मङ्गचते-अधिगम्यते वाञ्छितमनेनेति मङ्गलार्थस्य युज्यमानत्वादिति, मध्यमङ्गलं पञ्चमाध्ययनस्यादिसूत्रं 'पंच महब्बए इत्यादि, महाव्रतानां क्षायिकादिभावतया मङ्गलत्वाद्, भवति हि
१त्रिवर्षपर्यायस्य तु आचारप्रकल्पनामाध्ययनम् । चतुर्वर्षस्य च सम्पन सूत्रकृतं नामात्रमिति ॥१॥ दशाकल्पव्यवहाराः संवत्सरपक्षकदीक्षितस्दैन । स्थाना समवायोऽपि चाहे ते अध्वर्षस्य ॥ २॥ २ बहु विघ्नानि श्रेयांसि तेन कृतमासोपचारैः । प्रहीतव्यः स सुमहानिधिारव यथा वा महाविद्या ॥१॥ २ सन्मालमादी मध्ये पर्यन्ते च शाबस्स । प्रथम शाखा(ब्रस्था)विघ्नपारगमनाय निर्दिधम् ॥ १॥ तस्यैव च स्वैया मध्यममन्यमपि तस्वैष । अन्युग्छि। चिनिमितं शिष्यपशिष्यादिवंशे ॥२॥ ४ मालमादिसूत्रमिति योगः,
अनुक्रम
iwwjangala
फलादिद्वारस्य निरूपणं, मंगल-निरुपणं,
~13~