SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [१], मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७३] दीप अनुक्रम [७३] तिनः पर्याप्ताः, ये हि चतस्रः स्वपर्याप्तीः पूरयन्तीति, अपर्याप्तनामकमोंदयादपर्याप्तका ये स्वपर्याप्तीन पूरयन्तीति, इह च पर्याप्तिर्नाम शक्तिः सामर्थ्यविशेष इतियावत्, सा च पुद्गलद्रव्योपचयादुत्पद्यते, पडूभेदा चेय, तद्यथा-आहार १ सरीरि २ दिय ३ पजत्ती आणपाण ४ भास ५ मणे ६ । चत्तारि पंच छप्पिय एगिंदियविगलसन्नीणं ॥१॥"ति, तत्र एकेन्द्रियाणां चतम्रो विकलेन्द्रियाणां पञ्च संजिनां षट्, तत्र आहारपर्याप्तिर्नाम खलरसपरिणमनशक्तिः १, शरीरपर्याप्तिः सप्तधातुतया रसस्य परिणमनशक्तिः २, इन्द्रियपर्याप्तिः पञ्चानामिन्द्रियाणां योग्यान् पुद्गलान् गृहीत्वाऽनाभोगनिर्तितेन वीर्येण तद्भावनयनशक्तिः ३, आनप्राणपर्याप्तिः उच्छासनिश्वासयोग्यान् पुद्गलान् गृहीत्वा तथा परिणमय्याऽऽनप्राणतया निसर्जनशक्ति, ४ भाषापर्याप्तिर्वचोयोग्यान पुद्गलान् गृहीत्वा भाषास्वेन परिणमय्य वाग्योगतया निसर्जनशक्तिः ५, मनःपर्याप्तिर्मनोयोग्यान पुद्गलान् गृहीत्वा मनस्तया परिणमय्य मनोयोगतया निसर्जनशक्तिरिति ६, एताः पर्याप्तयः पर्याप्तनामकर्मोदयेन निर्वय॑न्ते, तद् येषामस्ति ते पर्याप्तकाः, अपर्याप्तनामकर्मोदयेनानिवृत्ताः येषा-3 मेताः सन्तीति तेऽपर्याप्तका इति, एताश्च युगपदारभ्यन्तेऽन्तर्मुहर्तेन च निर्वय॑न्ते, तत्र आहारपर्याप्तेर्निवृत्तिकाल: समय एव, कथम् ?, उच्यते, यस्मात् प्रज्ञापनायामुकं आहारपज्जत्तीए अपज्जत्तए णं भंते! जीवे किं आहारए अणाहारए ?, गोयमा! नो आहारए अणाहारए"त्ति, स च विद्महे आहारपर्याप्त्या अपर्याप्तको लभ्यते, यदि पुनरुपपातक्षेत्रप्राप्तोऽप्याहारपर्यायाऽपर्याप्तको भवेत्तदैवं व्याकरणं भवेद्-गोयमा! सिय आहारए सिय अणाहारए'त्ति, यथा १ आहारपर्याप्त्याऽपर्याप्तो भवन्त ! जीवः किमाहारकोनाहारकः ? गौतम ! नो आहारकोऽनाहारकः । २ गौतम ! स्यादाहारकः स्यादनाहारकः, AnEautatunioimala -~117~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy